Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1348
________________ धम्म 2670- अभिधानराजेन्द्रः - भाग 4 प्रवाहोऽविच्छेद इत्यनान्तरम् / स विद्यते यस्य द्वयस्य तदिदमनुबन्धि तस्मिन् पुष्टिशुद्धिद्वयेऽस्मिन् प्रत्यक्षीकृते सति क्रमेणाऽऽनुपूा पुण्योपचयपापक्षयाभ्यां प्रवर्द्धमानाभ्यां तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य जीवस्य मुक्तिः परा तात्त्विकी सर्वकर्मक्षयलक्षणा ज्ञेयेति // 4 // कथं पुनरिदमनुबन्धिद्वयं न भवतीत्याहन प्राणिधानाऽऽद्याशय-संविद्वयतिरेकतोऽनुबन्धि तत्। भिन्नग्रन्थेनिर्मल-बोधवतः स्यादितं च परा।।५।। (नेत्यादि) (प्राणिधानाऽऽद्याशयसंविद्व्यतिरेकत इति) प्रणिधानाऽऽदयश्च ते आशयाश्च वक्ष्यमाणाः पञ्चाध्यवसायस्थानविशेषास्तेषां संवित्संवित्तिः संवेदनमनुभवस्तस्याव्यतिरेकोऽभावस्तस्मात्तदाशयसंविदव्यतिरेकेणैतद्वयं पुष्टिशुद्धिरूपं नानुबन्धि भवति, तस्मादेतदद्वयमनुबन्धिक कामेन प्रणिधानाऽऽदिषु यतितव्यम् / इयं च कस्येत्याह-भिन्नग्रन्थेरपूर्वकरणबलेन कृतग्रन्थिभेदस्य तत्प्रभावादेव निर्मलबोधवतो विमलबोधसंपन्नस्य स्याद्भवे दियं च प्रस्तुता प्रणिधानाऽऽद्याशयसंवित् परा प्रधाना / / 5 / / प्रणिधानाऽऽदिराशय उक्तस्तमेव संख्याविशिष्ट नामग्राहमाहप्रणिधिप्रवृत्तिविघ्नन-यसिद्धिविनियोगभेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाऽऽशयः पञ्चधाऽत्र विधौ / / 6 / / प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एत एव भेदास्तानाश्रित्य कर्मणिल्यबलोपे पशमी / प्रणिधिप्रवृत्तिविधनजयसिद्धिविनियोगभेदतः (प्राय इति) प्राचुर्येण शारत्रेषु धम्मधर्मवदिभिराख्यातः कथितःशुभाऽऽशयः शुभपरिणामः पञ्चधा पञ्चप्रकारः। अत्र प्रक्रमे विधौ कर्त्तव्योपदेशे प्रतिपादिताऽऽशयपञ्चकव्यतिरेकण। पुष्टिशुद्धिलक्षण द्वयमनुबन्धि न भवतीति॥६॥ तत्र प्रणिधानलक्षणमाहप्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव। निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारंच!|७|| (प्रणिधानमित्यादि) प्रणिधानं विशेष्यं, शेषपदानि विशेषणानि / तत्समये प्रतिपन्न विवक्षितधर्मस्थानमर्यादायां स्थितिमतप्रतिष्ठितमविचलितस्वभावं तदधः कृपानुग चैव स्वप्रतिपन्नधर्मस्थानरयाधोsधस्ताद्ये वर्तन्ते जीवा न तावती धर्मपदवीमाराधयन्ति, तेषु कृपया कराणया अनुरागमनुगतं तेषु करुणापरम्। न तु गुणहीनत्वात्तेपु द्वेषसमन्वितं निरवद्यवस्तुविषय, निरवद्य सावधपरिहारेण यद्वस्तु धर्मगतं तद्विषयो यस्य परार्थनिष्पत्तिसारंच परोपकारनिष्पत्तिप्रधानं चैवरवरूप प्रणिधानमवसेयम् // 7 // इदानी प्रवृत्तिमाहतत्रैव तु प्रवृत्तिः,शुभसारोपायसद्गतात्यन्तम्। अधिकृतयत्नातिशया-दौत्सुक्यविवर्जिता चैव // 8|| (तत्रैवेत्यादि) तत्रैव तु विवक्षितप्रतिपन्नधर्मस्थाने प्रवृत्तिरेवस्वरूपा भवति। सा च न क्रियारूपा किं त्वाशयरूपा, शुभसारोपायसंगताऽत्वन्तं बाह्यक्रियाद्वारेण विशेषणं सर्वं योजनीयम् / शुभः सुन्दरः सारः प्रकृष्टो नैपुण्यान्वितो य उपायस्तेन संगता युक्ता, अधिकृते धर्मरथाने यत्नातिशयः प्रयत्नाऽऽशयस्तरमात् सा संपद्यते, औत्सुक्यविवर्जिता चैव औत्सुक्यं त्वराभिलाषातिरेकस्तेन विवर्जिता विरहिता प्रयत्नातिशयमेव विधत्ते न त्वौत्सुक्यमिति भावः / / 8 / / अधुना विघ्नजयमाह-- विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः। मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ||6|| (विघ्नजयविविधः खलु विज्ञेय इति) विघ्नस्य धर्मान्तरायस्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा अस्येति त्रिविधस्त्रिभेदः / खलुशब्दो वाक्यालङ्कारे। त्रैविध्यमेवाऽऽहहीनमध्यमोत्कृष्टः हीनमध्यमाभ्यां सहित उत्कृष्ट एको हीनो विघ्नजयोऽपरो मध्यमोऽपरस्तूत्कृष्ट इति। त्रैविध्यमेव निदर्शनेन साधर्म्यगर्भमाहमार्ग इह कण्टकज्वरमोहजयसम इति। मार्गे प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविघ्नजयसमोमोहविघ्नजयसमः। इदमत्र तात्पर्यम्-यथा नाम कस्यचित्पुरुषस्य प्रयोजनवशान्मार्गप्रवृत्तस्य कण्टकाऽऽकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति / तद्रहिते तु पथि प्रवृत्तस्य गमनं निराकुलं संजायते / एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः। कण्टकाश्चैह सर्वे एव प्रतिकूलाः शीतोष्णाऽऽदयो धर्मस्थानविघ्नहेतवस्तैरभिद्रुतस्य धार्थिनोऽपि निराकुलप्रवृत्त्यसिद्धेः। आशयभेदश्वायं बाह्यकण्टकविघ्नजयेनोपलक्ष्यते / तथा-तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि, कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नस्तज्जयस्तु विशिष्टगमनप्रवृत्तिहेतुर्निराकुलशरीरत्वेन परिदृश्यते / इहापि ज्वरकल्पाः शारीरा एव रोगाः परिगृह्यन्ते / तदभिभूतस्य विशिष्टधर्मस्थानाऽऽराधनाऽक्षमत्वात्। ज्वरकल्पशारीरदुःखविघ्नजयस्तु सम्यग्धर्मस्थानाऽऽराधनाय प्रभवति / तस्येवाध्वनि जिगमिषोः पुरुषस्य दिग्मोहकल्पो मोहविघ्नस्तेनाभिभूतस्य पुनः पुनः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथञ्चित् प्रादुर्भवति। मोहविघ्नजयस्तु स्वयमेव मार्गसम्यक्परिज्ञानात्परैश्वोच्यमानमार्गश्रद्धानान्मन्दोत्साहतापरित्यागेन गमनप्रवृत्तिहेतुर्भवति / इहापि दिइमोहगमनविघ्नकल्पो मिथ्यात्वाऽऽदिजनितो मनोविभ्रमः परिग्रह्यते। तज्जयस्तु मिथ्यात्वाऽऽदिदोषनिराकरणद्वारेण / मनोविभ्रमापसारकत्वेन प्रस्तुतधर्ममार्गेऽनवरतप्रयाणकप्रवृत्या गमनाय संपद्यते। एवं कण्टकज्वरमोहविघ्नजयसमस्त्रिविधी विघ्नक्षय उक्तः। स एव विशिष्यतेप्रवृत्तिफलः प्रवृत्तिधर्मस्थानविषया फलमस्याऽऽशयविशेषस्य विघ्नजयसंज्ञितस्येति प्रवृत्तिफलः / / 6 / / एवं तृतीयमाशयभेदं प्रतिपाद्यं सिद्धिरूपमाशयमाहसिद्धिस्तत्तद्धर्म-स्थानावाप्तिरिह तात्त्विकी ज्ञेया। अधिके विनयाऽऽदियुता, हीने च दयाऽऽदिगुणसारा॥१०॥ (सिद्धिरित्यादि) सिद्धिर्नामाऽऽशयभेदः, सा च स्वरूपतः कीदृशी? तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया तस्य तस्य विवक्षितस्य धर्मस्थानरयाऽहिंसाऽऽदेवाप्तिः सिद्धिरुच्यते। साचतात्त्विकादंच विशेषणं तत्तद्धर्मस्थानावाप्रतात्विकत्वपरिहारार्थम् / न ह्यतात्त्विकी सा सिद्धिर्भवितुर्महति / सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयवेदिन्यभ्यस्तभावनामार्गे तीर्थकल्पे गुरो विनयाऽऽदियुत्ता विनयवैयावृत्त्यबहुमानाऽऽदिसमन्विता हीने च स्वप्रतिपन्नधर्मस्थानापेक्षया हीनगुणे निर्गुणे वा.

Loading...

Page Navigation
1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456