Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2668 - अभिधानराजेन्द्रः - भाग 4 धम्म सुगमा / आ०म० २अ०। आ०चूला धम्मो दुर्गतिगर्तानिपतज्जन्तुजातत्राणदानक्षमः, सोऽपि नामस्थापनाद्रव्यभावभेदाद्भिद्यमानव-तुर्धा संभवति / तत्र नामधर्मो यथा-कस्यचित्पुरुषाऽऽदे: सर्चतनस्यधर्म इति नाम प्रदीयते। स्थापनाधर्मो यथा-कस्यचिद्वस्तुनो धर्म इति स्थापना विधीयते--एष मया धर्मः पुनः समस्तान्यधार्मिकैर्धर्मबुद्ध्या परप्रतारणबुद्ध्या वा विधीयमानः सर्वोऽपि ध्यानाध्ययनाऽऽदिः द्रव्यधर्म एव / तथा-स्वदर्शनप्रतिपन्नानां श्रमणाऽऽदीनां चतुर्णामपि यचैत्यवन्दनप्रतिक्रमणस्वाध्यायाऽऽद्यनुष्ठानसेवनमविधिनाऽनुपयोगे न तथा-परोपरोधपरचित्तरञ्जनवां पार्श्वस्थाऽऽदीनां च यदनुष्ठानं तदपि द्रव्यधर्म एव, विवक्षितार्थसाधकत्वादिति / (विशेषश्वाऽत्र 'दव्वधम्म' शब्देऽस्मिन्नेव भागे 2474 पृष्ठे द्रष्टव्यः) भावधर्मस्तुश्रुतचारित्ररूपः साधुश्रावकाऽऽदिभिः सम्यगुपयोगपूर्वक विधीयते। यच ग्रामदेशकुलराजधर्मभेदाचतुर्विधः, तत्र ग्रामधर्मो ग्रामाऽऽचारः, एवं देशाऽऽदिष्वप्यायोजनीयम् / दानाऽऽदिभेदेन वा चातुर्विध्यम् / तच प्रतीतमेवातो नेह प्रतन्यते। दर्श०४ तत्त्व। तथा च सूत्रकृताङ्ग निर्युक्तौ धर्मस्य नामाऽऽदिनिक्षेपं दर्शयितुमाह - णामं ठवणा धम्मो, दव्वधम्मो य भावधम्मो य। सचित्ताचित्तमीसग-गिहत्थदाणे दवियधम्मे // 2 // (नाम टवणेत्यादि) नामस्थापनाद्रव्यभावभेदाचतुर्धा धर्मस्य निक्षेपः / तत्राऽपि नामस्थापनेऽनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो धर्म:सचित्ताचित्तमिश्रभेदात् त्रिधा / तत्राऽपि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो धर्मः स्वभावः / एवमचित्तानामपि धर्मास्तिकायाना यो यस्य स्वभावः स तस्य धर्म इति। तथाहि-''गइलक्खणओ धम्मो, ठाणलक्खणओ अहम्मो या भायणं सव्वदव्याणं, तह अवगाहलक्खणं // 1 // " पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति मिश्रद्रव्याणां च क्षीरोदकाऽऽदीनां यो यस्य स्वभावः स तद्धर्मतयाऽवगन्तव्य इति / गृहस्थानां च यः कुलनगरग्रामाऽऽदिधर्मो , गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मः (सूत्र०)। भावधर्मस्वरूपनिरूपणायाऽऽहलोइयलोउत्तरिओ, दुविहो पुण होति भावधम्मो उ। दुविहो विदुविहतिविहो, पंचविहो होति णायव्यो।।३।। (लोइय इत्यादि) भावधर्मो नोआगमतो द्विविधः / तद्यथा-लौकिको, लोकोत्तरश्च / तत्र लौकिको द्विविधः- गृहस्थानां, पाखण्डिकानां च / लोकोत्तरत्रिविधः-ज्ञानदर्शनचारित्रभेदात्। तत्राऽप्याभिनिबोधिकं ज्ञानं पञ्चधा / दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधम् / चारित्रमपि सामायिकाऽऽदिभेदात् पञ्चविधम् / गाथाक्षराणि त्वेवं नेयानि / तद्यथा-भावधर्मो लौकिकलोकोत्तरभेदाद् द्विधा, द्विविधोऽपि चाऽयं यथा-संख्येन द्विविधस्त्रिविधः। तत्रैव लौकिको गृहस्थपाखण्डिकभेदाद-द्विविधः / लोकोत्तरोऽपि ज्ञानदर्शनचारित्राभेदात् त्रिविधः। ज्ञानाऽऽदीनि प्रत्येकं त्रीण्यपि पञ्चधैवेति। सूत्र०१ श्रु० ६अ। (6) धर्मपदमधिकृत्यसूत्रस्पर्शिक नियुक्तिप्रतिपादनाया णामं ठवणा धम्मो, दव्वधम्मो अभावधम्मो उ। एएसिंणाणत्तं, वुच्छामि अहाणुपुव्वीए।।३६।। (णाम ट्वणा धम्मो त्ति) अत्र धर्मशब्दः प्रत्येकमभिसंबध्यते। नामधर्मः, स्थापनाधो, द्रव्यधर्मो, भावधर्मश्च / एतेषां नानात्वं भेदं वक्ष्ये अभिधास्ये, यथानुपूा यथानुपरिपाट्येति गाथार्थः / / 36 / / साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदॉश्वानादृत्य ज्ञशरीरभव्यशरीव्यतिरिक्तद्रव्यधर्माऽऽद्यभिधित्सयाऽऽहदव्वं च अस्थिकाओ, पयारधम्मो य भावधम्मो य। दव्वस्स पजवा जे, ते धम्मा तस्स दव्वस्स।।४।। इह त्रिविधोऽधिकृतो धर्मः 1 तद्यथा-द्रव्यधर्मः, अस्तिकायधर्मः, प्रचारधर्मश्चति / तत्र द्रव्यं चेत्यनेन धर्माधर्मिणोः कथञ्चिदभेदाद्द्रव्यधर्ममाह / तथाऽस्तिकाय इत्यनेन तु सूचनात्सूत्रमिति कृत्वा उपलक्षणत्वादवयवे समुदायशब्दोपचारादस्तिकायधर्म इति / प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यदेशमाह / भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह। साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मस्वरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया ये उत्पादविगमाऽऽदयस्ते च धमस्तिस्य द्रव्यस्य, ततश्व द्रव्यस्य धर्मा द्रव्यधर्मा इत्यनासंसक्तै कद्रव्यधर्माभावप्रदर्शनाथों बहुवचननिर्देश इति गाथार्थः / / 40|| इदानीमस्तिकायाऽऽदिधर्मस्वरूपप्रतिपिपादयिषयाऽऽह-- धम्मत्थिकायधम्मो, पयारधम्मो य विसयधम्मो उ। लोइय कुप्पावणिओ, लोगुत्तरलोगिणेगविहो / / 41 / / धर्मग्रहणाद्धर्मास्तिकायपरिग्रहः / ततश्वधर्मास्तिकायएव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकोऽस्तिकायधर्म इति / अन्ये तु व्याचक्षतेधर्मास्तिकायाऽऽदिस्वभावोऽस्तिकायधर्मइत्येतच्चायुक्तम् / तत्र धर्मास्तिकायाऽऽदीनां द्रव्यत्वेन तस्य द्रव्यधाव्यतिरेकादिति। तथाप्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्। तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः / स एवाऽऽत्मस्वभावत्वाद्धमः प्रचारधर्मः / स च किं विषीदन्त्येतेषु प्राणिन इति विषया रूपाऽऽदयः तद्धर्म एव / तथा च वस्तुतो विषयधर्म एवाऽयं यद्रागाऽऽदिमान् सत्त्वस्तेषु प्रवर्तत इति / चक्षुरादीन् द्रव्यवशतो रूपाऽऽदिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्। प्रधानसंसारनिबन्धनत्वेन चास्य प्राधान्यख्यापनार्थ द्रव्यधर्मात्पृथगुपन्यासः / इदानीं भावधर्मः, स च लौकिकाऽऽदिभेदभिन्न इति। आह च-लौकिकः कुप्रावचनिकः / लोकोत्तरस्त्वत्र-(लोगो णेगविहो त्ति) लौकिकोऽनेकविध इति गाथाऽर्थः / / 41 // तदेवानेकविधत्वमुपदर्शयन्नाहगम्मपसुदेसरजे, पुरवरगामगणगोहिराईणं / सावज्जो उ कुतित्थिय-धम्मो न जिणेहिँ उपसत्थो / / 4 / / तत्र गम्यधर्मों यथा दक्षिणापथे मातुलदुहिता गम्या, उत्तरापथे पुनरगम्यैव / एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्तव्येति / पशुधम्मो मात्रादिगमनलक्षणः / देशधर्मों देशाचारः। स च प्रतिनियत एव नेपथ्याऽऽदिलिङ्ग भेद इति / राज्यधर्मः प्र--

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456