Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1366
________________ धम्म 2688 - अभिधानराजेन्द्रः - भाग 4 धम्म शुद्ध तत्रता नवकोट्यः, यदुत-"ण हणइ ण हणावेड. हणत नाणुजाणइ / एवं-न किणइ 3, एवं-न पयइ 3 / " एताभिः परिशुद्ध, तथा उद्गमोत्पादनैषणाशुद्धमित्येतद्वस्तुतः सकलोपाधिविशुद्धकोटिख्यापनमेव, एवंभूतमपि किमर्थ भुञ्जते? षट्स्थानरक्षणार्थम्? तानि चामूनि- 'वेयणवेयावच्चे, इरियट्ठाए य संजमट्ठाए। तह पाणवित्तियाए, छट्टे पुण धम्मचिंताए"।।१।। अपि च भवान्तरे प्रशस्तभावनाभ्यासादहिंसानुपालनार्थम् / तथा चाऽऽह-नाहारत्यागतो भावितमते देहत्यागो भवान्तरेऽप्य-हिंसायैव भवतीति गाथार्थः / दिटुंतसुद्धि एसा, उवसंहारो य सुत्तनिहिट्ठो। संती विजंति त्ति य, संतिं सिद्धिं च साहेति // 121 / / दृष्टान्तशुद्धिरेषा प्रतिपादिता, उपसंहारस्तु उपनयस्तु सूत्रनिर्दिष्टः सूत्रोक्तः। तच्चेदं सुत्रम्एमए समणा मुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणे रया / / 3 / / एवमनेन प्रकारेण एते ये अधिकृताः प्रत्यक्षेण या परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणास्तपस्यन्तीत्यर्थः / एते च तन्त्रान्तरीया अपि भवन्ति / यथोक्तम्- "निगंथसक्कतावसगेरुयआजीव पंचहा समणा।" अत आह-मुक्ता बाह्याभ्यन्तरेण ग्रन्थेन, ये लोके अर्द्धतृतीयद्वीपसमुद्रपरिमाण, सन्ति विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त, इत्येतदाह- साधयन्तीति साधवः, किं साधयन्ति? ज्ञानाऽऽदीनि गम्यते / अत्राऽऽह- ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम् / अत्रोच्यते-इह व्यवहारेण निहवा अपि मुक्ता भवन्त्यैव, न च ते साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः / आह -न च ते सदैव सन्तीत्यनेनैव व्यवच्छिन्ना इत्युच्यन्ते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः / अथवाऽन्यथा व्याख्यायते-ये लोके सन्ति साधव इत्यत्र य इत्युद्देशः, लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किम्? शान्तिः सिद्धिरुच्यते, तां साधयन्तीति शान्ति साधवः / तथा चोक्त नियुक्तिकारेण- "संती विजंति त्ति य, संति सिद्धिं च साहेति।'' इदं व्याख्यातमेव, विहङ्गमा इव भ्रमरा इव पुप्पेषु, किम? दानभक्तैषणासुरताः, दानग्रहणाद्दत्तं गृह्णन्ति नादत्तं, भक्तग्रहणेन तदपि भक्तं प्रासुकं, न पुनराधाकऽऽदि, एषणाग्रहणेन गवेषणाऽ5-- दित्रयपरिग्रहः, तेषु स्थानेषुरताः सक्ता इति सूत्रसमासार्थः / दश० 110 // (21) विहङ्गमानां निक्षेपाऽऽद्युक्त्वा इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयतिइहइं पुण अहिगारो, विहासगमणेहिं भमरेहिँ (127) इह सूत्रे, पुनः शब्दोऽवधारणे, इहैव, नान्यत्र, अधिकारः प्रस्तावः प्रयोजनम् / कैरित्याह-विहायोगमनैराकाशगमनैः, भ्रमरैः षट्पदरिति गाथार्थः। दाणेति दत्तगिण्हण, भत्ते भण सेव फासुगेण्हणया। एसणतिगम्मि निरया, उवसंहारस्स सुद्धि इमा।।१२८|| दानेति सूत्रे दानग्रहण दत्तग्रहणप्रतिपादनार्थम् , दत्तमेव गृहन्ति नाऽदत्तम्। भक्तग्रहणं भज सेवायामित्यस्य निष्टान्तस्य भवति। अर्थश्वास्य प्रासुकग्रहणं प्रासुकमाधाकम्र्माऽऽदिरहितं गृह्णन्ति, नेतरदिति। (एसण त्ति) एषणाग्रहणमेषणात्रितये गवेषणाऽऽदिलक्षणे, निरताः सक्ताः, उपसंहारस्योपनयस्य, शुद्धिरिय वक्ष्यमाणलक्षणेति गाथार्थः / अवि भमरमहुयरिंगणा, अविदिन्नं आवियंति कुसुमरसं / समणा पुण भगवंतो, नादिन्नं भोत्तुमिच्छंति।।१२६।। अपि भ्रमरमधुकरिगणाः, मधुकरीग्रहणमिहापि स्त्रीसंग्रहणार्थम् / जातिसंग्रहार्थमिति चान्ये। अविदत्त सन्तं, किम्? आपिवन्ति, कुसुमरसं कुसुमाऽऽसवं, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेषः / इति गाथार्थः। साम्प्रतं सूत्रेणैवोपसहारविशुद्धिरुच्यते-कश्चिदाह-"दाणभत्तेसणे रया "इत्युक्तम, यत एवमत एव लोको भवत्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्माऽऽदि। तस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे च स्ववृत्त्यलाभ इति। अत्रोच्यते-क्यं चेत्यादि सूत्रम्वयं च वित्तिं लब्भामो, न य काइ उवहम्मइ। अहागडेसु रीयंते, पुप्फेसु भमरो जहा ||4|| वयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा यथा न कश्चिदुपहन्यते। वर्तमानैष्यत्कालोपन्यासस्वैकालिकन्यायप्रदर्शनार्थः / तथा चैते साधवः सर्वकालमेव यथाकृतेषु आत्मार्थमभिनिर्वतिष्वाहाराऽऽदिषु, रीयन्ते गच्छन्ति, वर्तन्त इत्यर्थः। पुष्पेषु भ्रमरा यथा। इत्येतच पूर्व भावितमेवेति सूत्रार्थः। यतश्चैवमतो महुगारसमेत्यादि सूत्रम्महुगारसमा बुद्धा, जे भवंति अणिस्सिया। नाणा पिंडरया दंता, तेण वुच्चंति साहुणो, त्ति वेमि / / 5 / / मधुकरसमा भ्रमरतुल्याः, बुद्ध्यन्ते स्म बुद्धाः, अधिगततत्वा इत्यर्थः / एवंभूता इत्यत आह-ये भवन्ति वा अनिश्रिताः कुलाऽऽदिष्वप्रतिबद्धा इत्यर्थः। अत्राऽऽहअस्संजएहिँ भमरे-हिँ जइ समा संजया खलु भवंति। एवं उवमं किच्चा, नूणं अस्संजया समणा / / 230 / / असंयतैः कुतश्चिदप्यनिवृत्तः, भ्रमरैः षट्पदेः, यदि समास्तुल्याः, संयताः साधवः खल्विति समा एव भवन्ति। ततश्चासंज्ञिनोऽपि, ते अत एवैनामित्यप्रकारामुपमा कृत्वा इदमापद्यते नूनमसंयताः श्रमणा इति गाथार्थः। एवमुक्ते सत्याहाऽऽचार्यः, एतच्चायुक्तम्, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्चितग्रहणात् त्वसंयतत्वस्येति। नियुक्तिकारस्त्वाहउवमा खलु एस कया, पुव्वुत्ता देसलक्खणोवणया। अणिययवित्तिनिमित्तं, अहिंसअणुपालणट्ठाए।१३१।। उपमा, खल्वेषा, मधुकरसमेत्यादिरूपा, कृता, पूर्वोक्तात् पूर्वोक्तन, देशलक्षणोपनयात् देशलक्षणोपनयेन, यथा चन्द्रमुखी कन्ये ति, तृतीयार्था चेह पक्षमी। इयं चानियतवृत्तिनिमित्त कृता अहिंसाऽनुपालनार्थमिदं च भावयत्येवेति गाथार्थः। जह दुमगणा उ तह नग-रजणवया पयणपायणसहावा। जह भमरा तह मुणिणो, नवरि अदत्तं न भुंजंति / / 132 // यथा दुमगणा वृक्षसंघाताः, स्वणवत एव पुष्पफलन-स्वभावास्तथैव नगर जनपदा नगराऽऽदिलोकाः, स्वयमेव पचनपाच

Loading...

Page Navigation
1 ... 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456