Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1415
________________ धम्मेक्कनिट्ठ 2737 - अभिधानराजेन्द्रः - भाग 4 धरण धम्मेक्कणि? त्रि०(धर्मैकनिष्ठ) धर्मतत्परे, षो० 12 विव०। धम्मोवएस पुं०(धर्मोपदेश) धर्मः श्रुतचारित्रलक्षणः, तस्योपदेशो देशना / धर्मदेशनायाम्, 'धर्मोपदेशश्रवणम् / ध०२ अधिक / आचाराङ्ग लोकसाराध्ययनपञ्चमोद्धेशकाऽऽदिमसूत्रे हृदोपमेनाऽऽचार्येण भाव्यमित्यत्र वृत्ती धर्ममाश्रित्य चतुर्भङ्गयां प्रत्येकबुद्धास्तूभयाभावाचतुर्थभङ्ग स्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेश न ददत्येतत्कथं सजाघटीति ? यतः - ऋषिमण्डल-सूत्रे-"पत्तेअबुद्धसाहू, नमिमो जे भासिइं सिवं पत्ता / पणयालीसं इसिभासियाइँ अज्झयणपवराई" // 1 // इति-गाथायां प्रत्येकबुद्धानामध्ययनमुक्तमिति किमत्र तत्त्वमिति प्रश्ने ? उत्तरम्--आवाराङ्गवृत्त्यनुसारेण प्रत्येकबुद्धाः समाप्रबन्धेन धर्मोपदेशन ददतीत्यवसीयते। ऋषिमण्डले तुतेषामध्ययनप्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नम् इति। 383 प० / सेन० 3 उल्लाका धम्मोवएसय त्रि०(धर्मोपदेशक) धर्मदेशकेग, ध०२ अधिक। धम्मोवओग पुं०(धर्मोपयोग) धर्मस्येतिकर्तव्यताबोधे, पं० सू० 4 सूत्र०। धम्मोवगरण न०(धर्मापकरण) संयमोपकरणे, आचा०। धर्मोपकरणस्य च न परिग्रहत्वम् - परिग्गहाओ अप्पाणं अवक्कसेज्जा / (60) परिगृह्यत इति परिग्रहो धर्मोपकरणातिरिक्तमुपकरणं, तस्मादात्मानमवष्वष्केदपसर्पयेत् / अथवा-संयमोपकरणमपि मूर्छ-या परिग्रहो भवति; 'मूच्छा परिग्रहः' (तत्त्वा०७ अ०१७ सूत्र) इति वचनात्। तत आत्मानं परिग्रहादसर्पयन्नुपकरणे तुरगवन्मूर्छा न कुर्यात् / ननु च यः कश्चिद्धर्मोपकरणाऽऽद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति / तथाहि-आत्मीयोपकारिणि रागः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सतिरागद्वेषौ नेदिष्ठी, ताभ्यां कर्मबन्धः, तत्कथन परिग्रहो धर्मोपकरणम् ? उक्त च - "ममाहमिति चैव या वदभिमानदाहज्वरः कृतान्तमुखमेव ता-वदिति न प्रशान्त्युनयः / यशः सुखपिपासितैरयमसावनोत्तरैः , परैरपसदैः कुतोऽपि कथमप्यपाकृष्यते / / 1 / / ' नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहग्रहयोगोऽस्ति / तथा ह्यागमःअवि अप्पणो वि देहम्मि, णायरंति ममाइउं / ' यदिह परिगृहीतं कर्मबन्धायोपकल्प्यते, स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थ प्रभवति, तत्परिग्रह एव न भवतीति। आहचअण्णहाणं पासए परिहरिजा, एस मग्गे आरिएहिं पवेइए॥६१|| (अण्णहा णं इत्यादि) णमिति वाक्यालङ्कारे अन्यथेत्यन्येन प्रकारेण, पश्यकः सन, परिग्रह परिहरेत् / यथाहि -अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति, न तथा साधुः / तथाहि-अयमस्याऽऽशयः-आचार्यसत्कमिदमुपकरण, न ममेति रागद्वेषमूलत्वात्परिग्रहग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति। उक्तं च - 'साध्यं यथाकथञ्चित्, स्वल्पं कार्य महचान तथेति / प्लवनमृते नहि शक्यं, पारंगन्तुं समुद्रस्य॥१॥" अत्र चाऽऽर्हताऽऽभासैर्वोटिक : सह महान विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्राये णापि सिसाधयिषुराह-(एस मग्गे इत्यादि) धर्मोपकरणं न परिग्रहायैत्यनन्तरोक्तो मार्गः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तीर्थकृतः , तैः प्रवेदितः कथितो, न तु यथा बोटिक : कुण्डिकातट्टिकालवणिका - ऽश्वबालधिबालाऽऽदिस्वरुचिविरचितो मार्ग इति। न वा यथा मौदगलिस्वातिपुत्राभ्यां शौद्धोदर्नि ध्वजीकृत्य प्रकाशितः / इत्यनया दिशा अन्येऽपि परिहार्या इति / इह तु स्वशास्त्रगौरवमुत्पादयितुमार्थ : प्रवेदितः / (61) आचा०१ श्रु०२ अ०५ उ०। धम्मोवग्गहदाण न०(धर्मोपग्रहदान) ज्ञानाभयप्रदातॄणामाहाराss वैरुपग्रहः / दत्तैर्यर्जायते शुद्धस्तद्धर्मोपग्रहं स्मृतम् // 1 // इत्युक्तलक्षणे दानभेदे. ग०२ अधि०। धम्मोवाय पुं०(धर्मोपाय) प्रवचने, तदस्तरेण धर्मस्यासम्भवात् / चतुर्दशसु पूर्वेषु, आ० म०१ अ०१खण्ड। सामायिकाऽऽदिकेच , आ० म०१ अ०१खण्ड। (धर्मोपायव्याख्या 'तित्थयर' शब्देऽस्मिन्नेव भागे 2261 पृष्ठे गता) धम्मोवायदे सग पुं०(धर्मो पायदेशक) दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः , तस्योपायो द्वादशाङ्गः प्रवचनम् / अथवा-पूर्वाणि देशयतीति देशकः, धर्मो पायस्य देशको धर्मोपायदेशकः / गणधरे, चतुर्दशपूर्ववित्सु, आ० म० 1 अ० 1 खण्ड / चतुर्विशतिसंख्याकेषु जिलेपु, आ०म० / ''धम्मोवाओ पवयण-महवा पुण्याइँ देसया तस्स। सव्वजिणाण गणहरा, चोदसपुब्बी उजे जस्त / / 1 / / '' आ० म०१ अ० १खण्ड। (अस्य गाथाया व्याख्या 'तित्थयर' शब्देऽस्मिन्नेव भागे 2261 पृष्ठ गता) *धय ध्वज 'झय' शब्दार्थे, कल्प०१ अधि० 3 क्षण। को०। धयण (देशी) गृहे. दे० ना०५ वर्ग 57 गाथा। धयरट्ठ पुं०(धार्तराष्ट्र) हंसे, "धयरट्टा कायंबा।'' को० 40 गाथा। धर धृ० पतने, भ्वादि०आ०-अक० --अनिट् / "ऋवर्णस्यारः" ||14|234 // इति प्राकृतसूत्रेण धातोरन्त्यस्य ऋवर्णस्य अरा-ऽऽदेशः / 'धरइ।' प्रा० 4 पाद / धरते। अधृत / वाच० / स्थितो िअक०। धृतौ सक०-स्वादि०-उभ० --अनिट्। धरति,ते, अधार्षीत् अधृता वाच०। तूले, दे० ना०५ वर्ग 57 गाथा। *धर त्रि० / धियतोधरतीति वा धरः, "लिहाऽऽदिभ्यः" / / 5 / 1150 / / इत्यच्प्रत्ययः / न० / धारके, औ०। 'धरइ।' प्रा० 4 पाद। प्रज्ञा०। पर्वत, कूर्मराजे, वसुभेदे, कार्पाससूत्रे च / वाच० / पद्मप्रभस्य षष्ठस्य जिनस्य पितरि कौशाम्बीवास्तव्ये स्वनामख्याते नृपे, आव० 1 अ०। स० / स्था० / अस्यामवसर्पिण्यामरवतवर्षभवे विंशतितमे जिने, स०। पर्वत, को०५० गाथा। धरग्ग (देशी) कार्यासे, दे० ना०५ वर्ग 58 गाथा। धरण पुं०(धरण) धृ०-युच्। पर्वतभेदे, लोके. गुणे, धान्ये, दिवाकरे, सेती च / वाच० / दक्षिणनागकुमारनिकायेन्द्र, स्था० 4 ठा०१ उ० / ति० / द्वी०। प्रज्ञा० / भ० / शलिलाबतीविजयस्थवीतशोकाराजधानीस्थस्य महाबलस्य राजपुत्रस्य स्वनामख्याते सवयस्ये मित्रे, ज्ञा०१ श्रु० 8 अ०। द्वारवतीवास्तव्येषु समुद्रविजयाऽऽदिषु दशसु दशाhष्यन्यतमे दशार्हे, अन्त० 1 01 वर्ग 1 अ०। स०। अनिक्षेपे, ओध०। षोडशरूप्यमा

Loading...

Page Navigation
1 ... 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456