Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2662 - अभिधानराजेन्द्रः - भाग 4 धम्म पलिओवमं छिज्झइ सागरोवमं, किमंग ! पुण मज्झ इमं मणोदुहं / / 15 / / अस्य तावदित्यात्मन एव निर्देशः, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः / दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य, क्लेशवृत्तेः एकान्तक्लेशवेष्टितस्य सतो, नरक एव पल्योपमं क्षीयते, सागरोपमं च यथाकर्मप्रत्ययम्, किमङ्ग ! पुनर्ममेदं संयमरतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोषरहितम्, एतत्क्षीयत एवैतचिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः // 15 // विशेषणेतदेवाऽऽहन मे चिरं दुक्खमिणं भविस्सई, असासया भोगापिवास जंतुणो। न चे सरीरेण इमेणऽवस्सई, अवस्सई जीविअपज्जवेण मे||१६|| न मम चिरं प्रभूतं कालं दुःखमिदं संयमारतिलक्षणं भविष्यति / किमित्यत आह- अशाश्वती प्रायो यौवनकालावस्थायिनी, भोगपिपासा विषयतृष्णा, जन्तोःप्राणिनः / अशाश्वतीत्वे एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथाऽपि किमाकुलत्वं यतोऽपयास्यति जीवितपर्यायेण जीवितस्यापगमेन, मरणेनेत्येयनिश्चितः स्यादिति सूत्रार्थः / / 16 / / अस्यैव फलमाहजस्सेवमप्पा उहविज निच्छओ, चइज्ज देह नहुधम्मसासणं / तं तारिसं नो पइलंति इंदिआ, उर्वति वाया व सुदंसणं गिरिं // 17 // यस्येति साधोः, एवमुक्तेन प्रकारेण, आत्मा, तुशब्दस्येव-कारार्थत्वात् आत्मैव, भवेन्निश्चितो दृढः, स त्यजेदेह क्वचिद्विघ्ने उपस्थिते, न तु धर्मशासनं न पुनर्धर्मज्ञानमिति, तं तादृशं धर्मनिश्चितं, न प्रचालयन्ति संयमस्थानान्न कम्पयन्तीन्द्रियाणि चक्षुरादीनि / निदर्शनमाहउत्पतद्वाता इव संपतत्पवना इव सुदर्शन गिरि मेरुम् / एतदुक्त भवतियथा मेरुं वाता न चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः / / 17 / / उपसंहरन्नाहइच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआणिआ। कारण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्ठिजासि॥१८|| इत्येवमध्ययनोक्त दुष्प्रजीवित्वाऽऽदि संप्रेक्ष्याऽऽदित आय यथावद् दृष्ट्वा बुद्धिमान्नरः सम्यक् बुद्ध्युपेतः, आयमुपाय विविध विज्ञाय, आयः / सम्यग्ज्ञानाऽऽदेः, उपायस्तत्साधनप्रकारः कालविनयाऽऽदिर्विविधोऽनेकप्रकारस्त ज्ञात्वा, किमित्याह- कायेन, वाचा, अथमनसा, त्रिभिरपि करणैर्यथाप्रवृत्तैः त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्ति तदुक्तैकक्रियापालनपरो भूयात्, भवाय सिद्धौ तत्ततो मुक्तिसिद्धेरिति सूत्रार्थः // 18 // दश०१चूल। (25) किमभिसन्ध्यधर्ममाचक्षीतेति दर्शयतिदयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे विभए किट्टे वेदवी से उठ्ठिएसुवा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेदए संतिं विरतिं उवसमंणिव्वाणं सोयवियं अञ्जवियं मद्दवियं लाघवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सवेसिं सत्ताणं अणुवीइ भिक्खू धम्ममाइक्खेजा। दयां कृपां लोकस्य जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा, क्षेत्रतः प्राचीनं, प्रतीचीनं दक्षिणमुदीचीनम्, अपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्यन धर्ममाचक्षीत, कालतो यावज्जीवं, भावतोऽरक्तोऽदिष्ट : कथमाचक्षीत? तद्यथा- सर्वे जन्तवो दुःखद्विषः सुखलिप्सव आत्मोपमया सदा द्रष्टव्या इति / उक्तं च- "तत्तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः / एष संग्रहिको धर्मः, कामादन्यत् प्रवर्तते / / 1 / / " इत्यादि। तथा धर्ममाचक्षाणो विभजेद्रव्यक्षेत्रकालभावभेदैराक्षेपिण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्ताऽऽदानमैथुनपरिग्रहरात्रिभोजनविरतिविशेषेर्वा धर्म विभजेत्, यदि या कोऽयं पुरुषः कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा एवं विभजेत, तथा कीर्तयेद् व्रतानुष्ठानफलं, कोऽसौ कीर्तयेद्? वेदविदागमविदिति। नागार्जुनीयास्तु पठन्ति- "जे खलु भिक्खू बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसंपन्नो खेत्तं कालं पुरिसं समासज्ज कहेयं पुरिसे कं वा दरिमणमभिसंपन्नो एवं पुण जातीए पभू धम्मस्स आघवित्तए।" इति कण्ठ्यम्। स पुनः केषु निमित्तभूतेषु कीर्तयेदि-त्याह-(से उद्विएसु वा इत्यादि) स आगमवित् स्वसमयपरसमयज्ञ उत्थितेषु वा भावोत्थानेन यतिषु, वाशब्द उत्तरपिक्षया पक्षान्तरद्योतकः / पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव, वर्द्धमानतीर्थाऽऽचार्याऽऽदिः पञ्चयाम धर्म प्रवेदयेदिति स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति / अनुत्थितेषु वा श्रावकाऽऽदिषु शुश्रूषमाणेषु धर्म श्रोतुमिच्छत्सु गुर्वादः पर्युपारित कुर्वत्सु वा संसारोत्त-रणाय धर्म प्रवेदयेत् / तत्किंभूतं प्रवेदयेदित्याह- "संति' इत्यादि, यावत् "भिक्खू धम्ममाइक्खेजा" शमनं शान्तिरहिंसेत्यर्थः / तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादाऽऽदिशेषव्रतसंग्रहः / तमुपशमं क्रोधजयाद्, अनेन चोत्तरगुणसंग्रहः, तथा निर्वृतिर्निर्वाणं मूलगुणोत्तरगुणयोरहिकाऽऽमुष्मिक-फलभूतमाचक्षीत। तथा शौचं सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवं सबाह्याभ्यन्तरग्रन्थिपरित्यागात् / कथमाचक्षीतेति दर्शयतिअनतिपत्त्य। यथावस्थितं वस्त्वागमाभिहितं, तथाऽनतिक्रम्येत्यर्थः, केषां कथयति? सर्वेषां प्राणिना,दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथासर्वेषांभूतानांमुक्तिगमनयोग्येन भव्यत्वेन भूतानां व्यवस्थिताना, तथा सर्वेषां जीवानां जिजीविषूणा च, तथा सर्वेषां सत्त्वानां तिर्यड्नराभराणां संसारे क्लिश्यमानतया करुणाऽऽस्पदानाम्,ए

Page Navigation
1 ... 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456