Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2666 - अमिधानराजेन्द्रः - भाग 4 धम्म र्थमाह- (पुत्वमित्यादि) पूर्वमादावेव समवम्- आगमं यद्यदीयाऽऽगमेऽभिहितं तन्निकाच्य व्यवस्थाप्य पुनस्तद्विरूपाऽऽपादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, यदि वा पूर्व प्राश्निकान्निकाध्य ततः पाषण्डिकान् प्रश्नयितुमाह-(पत्तेयमित्यादि) एकमेकं प्रति प्रत्येकं, भो प्रावादुकाः ! भवतः प्रश्नयिष्यामिः, किं (भे) युष्माकं सातं मन आह्लादकारि, दुःखमसातं मनःप्रतिकूलम्? एवं पृष्टाःसन्तो यदि सातमित्येवं ब्रूयुस्ततः प्रत्यक्षाऽऽगमलोकबाधा स्यात्, अथासातमित्येवं ब्युस्ततः 'समिया' सम्यक् प्रतिपन्नाँस्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात्, अपिः संभावने, संभाव्यत एतगणनं यथा न केवलं भवतां दुःखमसात, सर्वेषामपि प्राणिनां दुःखमसातं. मनसोऽनभिप्रेतमपरिनिवार्णमनिर्वृत्तिरूपमहद्य दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्हनने च दोषः / यस्त्वदोषमाह तदनार्यवचनम् / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्त - मन्त्रिणा विदिताऽऽगमसद्भावेन माध्यस्थ्यमवलम्बमानने तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टेखुडुगपायसमासं, धम्मकह पि य अजंपमाणेण / छण्णेण अण्णलिंगी, परिच्छिया रोहगुत्तेणं // 227 / / अनया गाथया संक्षेपतः सर्व कथानकमावेदितम्-क्षुल्लकस्य पादसमासो गाथापादसंक्षेपस्तमजल्पता धर्मकथा च छन्नेनाप्रकटेनान्यलिगिनः प्रावादुकाः परीक्षिता निरूपिता रोहगुप्तेन रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः / भावार्थस्तु कथानकादवसेयः। तचेदम्चम्पायां नगयां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चाऽऽर्हद्दर्शनभावितान्तः करणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्मविचारं प्रस्तावयति स्म, तत्र यो यस्याभिमतः स तं शोभनमुवाच, सच तूष्णींभावं भजमानो राज्ञोक्तः- धर्म-विचारं प्रति किमपि न ब्रूते भवान्? स त्वाह किमेभिः पक्षपातवचोभिर्विमामः, स्वत एव धर्म परीक्षामहे तीर्थकानित्यभिधाय राजानुमत्या "सकुंडलं वा वदनं न व त्ति।" अयं गाथापादो नगरमध्ये आललम्बे, संपूर्णा तु गाथा भाण्डागारिता,न गा चोघुष्टम्-यथा य एवं गाथापाद पूरयिष्यति, तस्य राजा यथेप्सितं दानं दास्यति, तद्भक्तश्च भविष्यतीति / तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनः सप्तमंऽसि राजानमास्थानस्थमुपस्थितास्तत्राऽऽदावेव परिवाड्ब्रतीतिभिक्खं परिटेण मएऽज दिटुं, पमदाणुहं कमलविलासनेत्तं / वक्खित्तचित्तेण न सुठु नायं, सकुंडलं वा वयणं न व त्ति // 228|| सुगमा, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं, न पुनवर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्धाटितः। पुनस्तापसः पठतिफलोदएणम्मि गिहं पविट्ठो, . तत्थाऽऽसणत्था पमदा में दिट्ठा। वक्खित्तचित्तेण ण सुठु नायं सकुंडलंवा वयणं न व त्ति / / 22 / / "फलोदएणं" इत्यादि सुगम पूर्ववत्। तदनन्तरं शौद्धोदनिशिष्यकः प्राऽऽहमालाविहारम्मि मएऽज्ज दिट्ठा, उवासिया कंचणभूसियंगी। वक्खित्तचित्तेण न सुतु नायं, सकुंडलं वा वयणं न वत्ति // 230|| पूर्ववत्, एवमनया दिशा सर्वेऽपि तीर्थका वाच्याः। आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वाहतक्षुल्लकोऽप्येवंभूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थ प्रविष्टः प्रत्यूषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथां बभाषे। तद्यथाखंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स। किं मज्झ एएण विचिंतिएणं, सकुंडलं वा वयणं न व त्ति // 231 / / सुगमा। अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं, न पुनव्यीक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्व कारणाद्राज्ञो धर्म प्रति भावोल्लासोऽभूत, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकईमगोलकद्वयं मित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन राज्ञोक्तम्-किमिति भवान् धर्म पृष्टोऽपि न कथयति? स चावोचत्-हे मुग्ध ! ननु कथित एव धर्मो भवतः शुष्केतरगोलकद्रष्टान्तेन। एतदेव गाथाद्वयेनाऽऽहउल्लो सुक्को य दो छूढा, गोलया मट्टियामया। दो वि आवाडिया कुड्डे, जो उल्लो सोऽय लग्गई // 232 // एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गति, जहा से सुक्कगोलए॥२३३|| (एवं लग्गति) अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्ग निरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति, तदभावे तु पश्यन्ति, ते कामगृध्नुतया सार्दाः, सार्द्रत्वाच संसारपङ्के कर्मकर्दमेवालगन्ति, येतुपुनः क्षान्त्यादिगुणोपेताः संसारसुखपराड्मुखाः काष्ठमुनयः ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः। आचा०१ श्रु०४ अ०२उ०। तथा चबहुजणणमणम्मि संवुडो, सव्वदे॒हिं णरे अणिस्सिए। दह एव सया अणाविले, धम्मं पादुरकासि कासवं // 7 // (बहुजणनमणम्मीत्यादि) बहून जनान् आत्मानं प्रति नामयति प्रोकरोति, तैर्वा नम्यते स्तूयते बहुजननमनो धर्मः।

Page Navigation
1 ... 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456