Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2674 - अभिधानराजेन्द्रः - भाग 4 धम्म स्वमनीषिकापरिहारार्थमाहएयं णियाय मुणिणा पवेदितं, इह आणाकंखी पंडिते अणिहे, पुव्वावररायं जयमाणे, सया सीलं संपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेण वज्झओ?||१५३।। (एय इत्यादि) एतद् यदुत्थाननिपाताऽऽदिक प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन (णियाय त्ति) ज्ञात्वा मुनिना तीर्थकृता प्रवेदित कथितम् / इदं चान्यत्प्रवेदितमित्याह--(इह इत्यादि) इहास्मिन्मानीन्द्र प्रवचने व्यवस्थितः सन आज्ञां तीर्थकृतोपदेशमाकाङ्गितुं शीलमस्यत्याज्ञाकाङ्क्षी आगमानुसारप्रवृत्तिकः, कश्चैर्वभूतः?- पण्डितः सदसद्विवेकज्ञोऽस्निहः स्नेहरहितो रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यत्नवान स्यादित्येतदाह-(पुव्वावर इत्यादि) पूर्वरात्रं रात्रेः प्रथमो यामोऽपररात्रं रात्रेः पाश्चात्य एतद्यामद्वयमपि यतमानः सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन वैरागादिकं विध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्या-वश्यभावित्वात् / किञ्च- (सया सील इत्यादि) सदा सर्वकाल शीलम् अष्टादशभेदसहस्रसख्य, संयम वा। यदि वा चतुर्धा शीलम् .. महाव्रतसमाधानं तिस्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलं संप्रेक्ष्य मोक्षाङ्ग तयाऽनुपालयेत नाक्षिनिमेषमात्रमपि काल प्रमादवशगो भूयात् / कश्च शीलसंप्रेक्षकः रयादित्याह- यो हि श्रुत्वा शीलसंप्रेक्षणफलं निःशीलनिर्वतानां च नरकाऽऽदिपातविपाकमाकाऽऽगमात्, 'भवेत् स्याद् अकाम इच्छामदनकामरहित इति तथा नास्य झंझा माया, लोभेच्छा विद्यत इत्यभं झः, कामझाप्रतिषधाच मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्म श्रुत्वा स्याद् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्याद अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यम्। ननु चान्यजीवाच्छरीरमित्येव भावनायुक्त स्यानिगृहीतबलवीर्यस्य पराक्रममाणस्याऽष्टादशशीलाइसहराधारिणोऽपि मे यथोपदेशं प्रवर्तमानस्यापि नाशेषकर्ममलापगमाऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व, येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहं च भवदुपदेशादपि सिंहेनापि सह युझ्य, न में कर्मक्षयार्थ प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तर सूत्रेणैवाऽऽह(इमेण चेव इत्यादि) अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियाऽऽत्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण वाह्यतस्ते युद्धेन? अन्तरारिषड्वर्गकर्मरिपुजवाद्वा सर्वं सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति॥१५३॥ किं त्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटि सहरनेष्वपि दुष्प्रापेति दर्शयितुमाहजुद्धारिहं खलु दुलहं जहित्थकुसलेहिं परिण्णाविवेगे भासिते, चुते हुबाले गब्भातिसु रज्जति, अस्सिं चेयं पवुच्चति, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुणी, अण्णहा लोगमुवहेमाणे, इय कम्म परिण्णाय सव्वसो से ण हिंसति, संजमती णो पगब्भती, उवेहमाणो पत्तेयं सायं, वण्णाएसी णारभे कंचणं सव्वलोए एगप्पमुहे विदिसपतिण्णे णिविण्णचारी अरए पयासु // 154|| (युद्धारिहं इत्यादि) एतदीदारिकं शरीरं भावयुद्धार्ह , खलुवधारणे। स च भिन्नक्रमो, दुर्लभभेव दुष्प्रायमेव, उक्त च- 'ननु पुनरिदमति दुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं यखोतक-तडिल्लताविलसितप्रतिमम् / / 1 / / इत्यादि। पाठान्तरं वा- "युद्धारियं च दुल्लह / ' तत्रानार्य संग्रामयुद्धं, परीषहाऽऽदिरिपुयुद्ध त्वार्य, तद दुर्लभमेव तेन युध्यस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः / तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षय विधत्ते ,मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत, कश्चिपार्द्धपुद्गलपरावर्तेन, अपरोन सेत्स्यत्येव, किमित्येवं यत आह(जहाकुसलेहिं इत्यादि) यथा येन प्रकारेणात्रारिमन् संसारे कुशलस्तीर्थकृद्भिः परिज्ञा विवेकः परिज्ञानविशिष्टता, कस्यचित्कोऽप्यध्यवसायः संसारवैचित्र्यहेतुर्भाषितः प्रज्ञापितः-सच मतिमता तथैवाभ्युपगन्तव्य इति / तदेव परिज्ञाननानात्वं दर्शयन्नाह- (चुए इत्यादि) लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोकगमनहेतुंधर्म पुनरपि कर्मोदयात् तस्मात् च्युतो बालः अज्ञः गर्भाऽऽदिषु रज्यते, गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भाऽऽदयः, तेष्वेव गायमुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत इत्येतदध्यवसायी भवति। यदि वा-धर्मात च्युतस्तकरोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति। 'रिज्जइत्ति' वा वचित्पाठः, रीयते गच्छतीत्यर्थः / स्यात्- क्वोक्तमिदम? यत्प्राग् व्यावर्णितमित्याह-(अस्सि चेयं पवुच्चइ रुवंसि वा छणंसि वा से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्मं परिन्नाय सव्वसो से ण हिराति संजमती णो पगभइ) अस्मिन्निन्याहते प्रवचने एतत्पूर्वोक्त प्रकर्षणोच्यतेप्रोच्यते / एतच वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह-रूपे चक्षुरिन्द्रियविषये अध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसाऽऽदौ क्षणे प्रवर्तते, 'क्षणु' हिंसायां, क्षणनं क्षणो हिंसा,तस्यां प्रवर्त्तते, वाशब्दादन्यत्र चानृतस्तेयाऽऽताविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाका रूपोपादानम, आश्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच तदुपादानमिति। बालो रूपाऽऽदिविषयनिमित्तं धर्माच्चयुतः सन् गर्भाऽऽदिषु रज्यते. अत्राऽऽर्हत मार्गे इदमुच्यते,यस्तु पुनर्गर्भाऽऽदिगमनहेतुज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः स्यादित्याह-स जितेन्द्रियो, हुरवधारणे, स एवैक अद्वितीयो मुनिजगत्रयमन्ता संविद्ध-पथः सम्यग्विद्धस्ताडितः क्षुण्णः पन्था मोक्षमार्गो शानदर्शनचारित्राऽऽख्यो येन स तथा। (संविद्धभए ति) वा पाठः / संविद्ध यो दृष्टभय इत्यर्थः, यो ह्याश्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्ष-मार्गः इति भावार्थः / किश- अन्येन प्रकारेणान्यथा विषयकषायाभिभूतं हिंसाऽऽदिकर्मसु प्रवृत्तं लोकमगृहस्थ लोक वा पाखण्डिलोकं वा, पचनपाचनौटेशिकसचित्ताऽऽहाराऽऽदिप्रवृत्तमु - त्प्रेक्ष्यमाणोऽन्यथा वाऽऽत्मानं निवृत्ताशुभव्यापारमुत्प्रेक्ष्यमाणः संविद्धपथो मुनिः स्यादिति / लोक चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह- इति पूर्वोक्तहेतुभिर्यबद्ध कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञायाऽपि सर्वतः परिहरेत् / कथं परिहरतीत्याह- (से ण हिंस

Page Navigation
1 ... 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456