Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2665 - अभिधानराजेन्द्रः - भाग 4 धम्म तिनिमित्ते, बुधस्तूतलक्षण एव मार्गानुसारी ज्ञानाऽऽदिवयानुसारी स्वघरयोस्तवृद्धिहेतुत्वेन यः स विज्ञेय इति // 3 // ___कथं पुनर्बाह्यलिङ्ग प्राधान्यदर्शिनो बालत्वमित्याहबाह्य लिङ्गमसारं, तत्प्रतिबद्धान धर्मनिष्पत्तिः / धारयति कार्यवशतो, यस्माच विडम्बकोऽप्येतत् // 4 // बाह्य बहिर्वतिं दृश्यम्, लिङ्गमाकारो वेषस्तदसारम् यतस्तत्प्रतिबद्धात तदविनाभाविनी, न धर्मनिष्पत्तिर्न धर्मसंसिद्धिर्विदुषां मता। धारयति कार्यवशतः कार्याङ्गीकरणेन स्वाभिप्रेतफलसिद्धये, यस्माच विडम्बकोऽप्येतद्धर्मनिष्पत्त्यभावविवक्षया यस्माचेति हेत्वन्तरसूचनम् / एको हेतुर्बाह्यलिङ्गाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमित्ताद्विडम्ब - कस्याऽपि तद्धारणमाभ्यां बाह्यलिङ्गामसारम्। स तु बालस्तदेव प्राधान्येन मन्यत इति // 4 // ननु च बाह्यलिङ्गस्य कथमप्राधान्यं भवद्भिरुच्यते, यतस्तत्परि-- ग्रहत्यागरूपमित्याशक्याऽऽहबाह्यग्रन्थत्यागात्, न चारु न त्वत्र तदितरस्यापि। कञ्चुकमात्रत्यागा-न हि भुजगो निर्विषो भवति // 5 (बाह्येत्यादि) बाह्यग्रन्थत्यागाद्धनधान्यस्वजनवस्त्राऽऽदित्यागात् न चारा न शोभनं बाह्यलिङ्गं, ननु निश्वितमेतदत्र लोके / तद् बाह्यलिङ्गमितरस्यापि मनुष्यतिर्यप्रभृतेः संभवति / एनमेवार्थ प्रतिवस्तूपमया दर्शयति- कञ्चुकमात्रत्यागादुपरि-वर्तित्वड्मात्रपरित्यागान्न हि नैव भुजगः सरीसृपः कथञ्चिन्निर्विषो भवति।५।। प्रस्तुतमेवार्थ तन्त्रान्तरसंवादेनाऽऽहमिथ्याऽऽचारफलमिदं, ह्यपरैरपि गीतमशुभभावस्य। सूत्रेऽप्यविकलमेत-त्प्रोक्तममेध्योत्करस्यापि॥६॥ मिथ्या अलीको विशिष्टभावशून्य आचारो मिथ्याऽऽचारः, तस्य फलं कार्यमिदं बाह्यलिङ्ग केवलमेव, हिर्यस्मादपरैरपि तन्त्रान्तरीयैगर्ति कथितमशुभभावस्याऽऽन्तरशुभभावरहितस्य पुंसः / मिथ्याऽऽचारस्वरूपं चेदम् - "बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् / इन्द्रियार्थान् विमूढात्मा, मिथ्याऽऽचारः स उच्यते॥१॥"जन्मान्तरोपार्जिताकुशलकर्मविपाकः एवैष यद्भोगोपभोगाऽऽदिरहितेन प्रेक्षायत्पुरुषपरिनिन्दनीयं क्लिष्ट जीविकाप्रायं तथाविधबाह्यलिङ्गधारणमिति। तन्त्रान्तरप्रसिद्धमिममर्थमङ्गीकृत्यापरैरपि इत्युक्तम् / न केवलं तन्त्रान्तरेषु, सूत्रेऽप्यागमेऽपि स्वकीयेऽविकलं परिपूर्णमेतद्बाह्यलिङ्गं स्वकीयमेव प्रोक्तं प्रतिपादितमैहभाविक पारभाविक लिङ्गान्याश्रित्यामेध्योत्करस्याप्युच्चारनिकरकल्पस्यापि, प्रवचनोदिताशेषगुणशून्यस्येति यावत्। यत उक्तम्- "अणंतसो दवलिंगाइ।" // 6 // ___ मध्यमबुद्धिर्विचारयति वृत्तमित्युक्तम् तत्र किं तदित्याहवृत्तं चारित्रं ख-ल्वसदारम्भविनिवृत्तिमत्तच्च / सदनुष्ठानं प्रोक्तं, कार्ये हेतूपचारेण ||7|| वृत्तं वर्तनं विधिप्रतिषेधरूपं, तच्च चारित्रमेव, खलुशब्दस्यावधारणार्थत्वात्, तच्चेह सदनुष्ठानं प्रोक्तम्। तत्कीदृशम्? असदारम्भविनिवृतिमत, असदारम्भोऽशोभनाऽऽरम्भः प्राणातिपाताऽऽद्याश्रवपञ्च- / करूपः, ततो विनिवृत्तिमद्धिंसाऽऽदिनिवृत्तिरूपमहिंसाऽऽद्यात्मकम्, ननु कथं सदनुष्ठानं चारित्रमभिधीयते / यतश्चारित्रमान्तरपरिणामरूपम्, सदनुष्ठानं तु बाह्य सत्क्रियारूपं, तदनयोः स्वरूपभेदः परिस्फुट एवास्तीत्याशडक्याऽऽह- कार्य हेतूपचारेण कार्ये सदनुष्ठानरूपे हेतूपचारेण भावोपचरेण तत्पूर्वकत्वात् सत्क्रियायाः, यचाऽऽन्तरपरिणामविकलं तत् सदनुष्ठानमेव न भवतीति भावार्थः।।७।। एतच्च सदनुष्ठानं शुद्धाशुद्धभेदं तद्वयमप्याहपरिशुद्धमिदं नियमा-दान्तरपरिणामतः सुपरिशुद्धात् / अन्यदतोऽन्यस्मादपि, बुधविज्ञेयं त्वचारुतया ||| परिशुद्ध सर्वप्रकारशुद्धमिदं सदनुष्ठान नियमान्नियमेनान्तरपरिणामतस्तथाविधचारित्रमोहनीयकर्मक्षयोपशमाऽऽदिजन्यात् सुपरिशुद्धाच्छास्त्रानुसारेण सम्यक्त्वज्ञानमूलादिति भावः / अन्यदित्यपरिशुद्धमतोऽन्यस्मादान्तरपरिणामाद्योऽन्यः कश्चिद्धेतुर्लाभपूजाख्यात्यादिस्ततोऽन्यस्मादपि प्रवर्तते / ननु परिशुद्धाऽपरिशुद्धयोः सदनुष्ठानयोः स्वरूप तुल्यमेवोपलभामहे, तत्कथं प्रतिनियतस्वरूपतया ज्ञायत इत्याह-(बुधविज्ञेयं त्वचारुतया) बुधैस्तत्त्वविद्भिरेवाचारुतया असुन्दरत्वे नेतररुप-विविक्तं तद्विज्ञायते यथा-अचार्विति न पुनरितरैस्तेषां तद्गतविशेषानुपलम्भादिति / / 8 / / कः पुनर्विशेषो यदुपलम्भात् सदनुष्ठानासदनुष्ठानयोरिदमवधार्यते, परिशुद्धमेतदिति तदुपदर्शनार्थमाहगुरुदोषाऽऽरम्भितया, तेष्वकरणयत्नतो निपुणधीमिः। सन्निन्दाऽऽदेश्च तथा, ज्ञायत एतन्नियोगेन / / 6 / / गुरून दोषान् प्रवचनोपघातकारिण आरब्धं शीलमस्येति गुरुदोषाऽऽरम्भी, तद्भावस्तया। लधुषु सूक्ष्मेषु दोषेष्वकरणयत्नः परिहाराऽऽदरस्तस्माच निपुणधीभिः कुशलबुद्धिभिस्तथा सतां सत्पुरुषाणां साधुश्रावकप्रभृतीनां निन्दाऽऽदिनिन्दागर्हाप्रद्वेषाऽऽदिस्तस्माच ज्ञायत एतदपरिशुद्धानुष्ठानं, नियोगेनाऽऽवश्यतया, यो हि गुरुदोषाऽऽदिषु प्रवर्त्तते, तस्यान्तः करणशुद्धेरभावादसदनुष्ठानमेतदिति निश्चीयते।।६।। "आगमतत्त्वं तु बुधः परीक्षते (2)" इत्युक्तं किंपुनस्तदित्याहआगमतत्त्वं ज्ञेयं, तदृष्टेष्टाविरुद्धवाक्यतया। उत्सर्गाऽऽदिसमन्वित-मलमैदम्पर्यशुद्धं च / / 10|| आगमतत्त्वं ज्ञेयं भवति, तत्कथम्? ज्ञेयं दृष्टं प्रत्यक्षानुमानप्रमाणे नोपलब्धमिष्टमागमेन स्ववचनै रेवाभ्युपगतं ताभ्यामविरुद्धानि वाक्यानि यस्मिन्नागमतत्त्वे तत् दृष्टेष्टाऽविरुद्धवाक्यं तद्भावस्तया योऽर्यः प्रत्यक्षानुमानाभ्यां परिच्छिद्यते तस्मिन् यथाऽऽगमतत्त्वमप्यविरोधि भवति, तद्विरुद्धस्य ताभ्यामेव निराकरणात्, प्रत्यक्षानुमानविरुद्धस्याऽऽगमस्याप्रमाणत्वात्, स्ववचनैरेवाऽऽगमेनाभ्युपगतेऽर्थे प्रदेशान्तरवर्तिनाऽस्यैवाऽऽगमस्य वचनं यदि विरोधि न भवेदित्यर्थतस्तत आगमतत्त्वमिष्टाविरोधिवाक्यं भवति, परस्पराविरोधि वचनमित्यर्थः, तदेव विशिनष्टि उत्सर्गाऽऽदिसमन्वितमुत्सर्गसामान्यं यथा-"न हिंस्याद् भूतानि" आदिशब्दादपवादो विशेषो ग्लानाऽऽदिप्रयोजनगतस्ताभ्यां युक्तम्। अलमत्यर्थमैदम्पर्यशुद्धं

Page Navigation
1 ... 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456