Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1349
________________ धम्म 2671 - अभिधानराजेन्द्रः - भाग 4 धम्म सामान्येनवै प्राणिगणे दयाऽऽदिगुणसारा दयादानव्यसनपतितदुःखापहाराऽऽदिगुणप्रधानाधिकहीनगुणग्रहणाद् मध्यमोपकारफलवत्यपि सा सिद्धित्युिक्तं भवति / / 10 / / एवं सिद्धिमभिधाय तत्फलभूतमेव विनियोगमाहसिद्धेश्चोत्तरकार्य , विनियोगेऽवन्ध्यमेतदेतस्मिन्। सत्थद्वयसंपत्त्या, सुन्दरमिति तत्परं यावत्॥११॥ सिद्धेश्चोत्तरकार्य विनियोगः सिद्धेरुत्तरकालभावि / कार्य विनियोगा नामाऽऽशयभेदो विज्ञेय इति संबन्धनीयम् / अवन्ध्यं सफल, न कदाचिन्निष्फलमेतर्द्धमस्थानमहिंसाऽऽदि, एतस्मिन् विनियोगे सति संजातेऽन्वयसंपत्त्याऽविच्छेदसंपत्त्या हेतुभूतया सुन्दरमेतत्पूर्वोक्तं धर्मस्थानम् / इतिशब्दो भिन्नक्रमः / परमित्यनेन संबन्धनीयो यावत् (तत्परमिति) तद्धर्मस्थानं पर प्रकृष्ट यावत्संपन्नमनेन विनियोगग्याऽनेक्जन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तिहेतुत्वमावेदयति / इदमत्र हृदयम्--अहिंसाऽऽ दिलक्षणधर्मस्थानावाप्तौ सत्यां स्वपरयोरुपकाराचा विच्छेदेन तस्यैव धर्मस्थानस्य विनियोगो व्यापारः स्वात्मतुन्यपरफलकर्तृत्वमभिधीयते। एवं हि स्वयं सिद्धस्य वस्तुनो विनियोगः सम्यक्कृतो भवति / यदि परस्मिन्नपि तत्संपद्यते विशेषेण नियोगो नियोजन्मध्यारोपणमिति कृत्वा आशयभेदत्वाच्च विनियोगस्याऽबन्ध्यत्वाप्रतिपादनप्रक्रियया स्वरूपोपकारहेतुत्वं दर्शयति सूत्रकारः॥११॥ एवमेतान्प्राणिधानाऽऽदीनभिधाय कथाशित क्रियारूपत्वप्राप्ताचषामाशयविशेषत्वसमर्थनायाऽऽह-- आशयभेदा एते, सवेऽपि हि तत्त्वतोऽवगन्तव्याः। भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा // 12 // आशयभेदा आशयप्रकारा एते पूर्वोक्ताः सर्वेऽपि हि सर्व एव कथञ्चित् क्रियारूपत्वेऽपि तदुपलक्ष्यतया तत्त्वतः परमार्थेनावगन्तव्या विज्ञेयाः परिणामविशेषा एते इति / शुभाऽऽशयः पञ्चधा त्रिविधो वेत्युक्तं स किं भावादपरोऽथ भाव एवेत्याशङ्कायामिदमाह- (भावोऽयमिति) अयं पञ्चप्रकारोऽप्याशयो भाव इत्यभिधीयते / अनेन भावेन विना चेष्टा व्यापाररूपा कायवाड्मनः सङ्गताः द्रव्यक्रिया तुच्छा भावविकला क्रिया द्रव्यक्रिया तुच्छा असारा स्वफलाऽसाधकत्वेन॥१२॥ कस्मात्पुनर्द्रव्यक्रियायास्तुच्छत्वाऽऽपादनेन भावप्राधान्य-माश्रीयत इत्याहअस्माच सानुबन्धा- च्छुद्ध्यन्तोऽवाप्यते द्रुतं क्रमशः। एतदिह धर्मतत्त्वं,परमा योगो विमुक्तिरसः / / 13 / / (अस्माचेत्यादि) अस्मात् पूर्वोक्तादावादाशयपक्षकरूपात सानुबन्धात् अनुबन्धः सन्तानस्तेन सह वर्तते यो भावः स सानुबन्धस्तदविनाभूतः, स चाव्यवच्छिन्नसन्तानस्तस्मादेव-विधादावाच्छुद्धे रन्तःप्रकर्षः शुद्ध्यन्ताऽवाप्यते प्राप्यते द्रुतमविलम्बित प्रभूतकालात्ययविगमेन क्रमशः क्रमेणाऽनुपूा तस्मिन् जन्मन्यपरस्मिन्वा कर्मक्षयप्रकर्षोलभ्यते ननु चैष एव भावो धर्मपरमार्थ आहोस्विदन्यद्धर्मतत्त्वमित्यारेकायां परस्य निर्वचनमाह-एतदिह धर्मतत्त्वम् / अत्र यद्यपि भावस्य प्रस्तुतत्वादेतदित्यत्र पुंलिङ्गतायामेष इति निर्देशः प्राप्नोति तथाऽपि धर्मतत्त्वमित्यस्य पदस्य प्रधानापेक्षया नपुंसकनिर्देशोऽर्थरन्तु एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं नान्चत् परमो योग इति / अयं भावः-परमो योगों वर्तते, सच कीदृग्? विमुक्तिरसः विशिष्ट मुक्तिर्विमुक्तिस्तद्विषयो रसः प्रीतिविशेषो यस्मिन् योगे स विमुक्तिरसः विमुक्ती रसोऽस्येति वा गमकत्वात् समासः। अथवा-पृथगेवपदान्तरं न विशेषणं, तेनाऽयं भावोविमुक्तौ रसः प्रीतिविशेषो विमुक्तिरस उच्यते एतदुक्तं भवतिभाव एव धर्मतत्त्वं भाव एव च परमो योगो भाव एव च विमुक्तिरस इति !|13|| ननु च भावाच्छुड्यन्तोऽवाप्यते इत्युक्तं, शुद्धिश्च पापक्षयेण प्रागुक्ता कथं पुनः पापमतीतेऽनादौ काले यद् भूयो आसेवितं तत्त्यक्त्वा भावमेवाभिलषति न पुनः पापं बहु मन्यते इत्याहअमृतरसाऽऽस्वादज्ञः, कुभक्तरसलालितोऽपि बहुकालम्। त्यक्त्वा तत्क्षणमेनं, वाञ्छत्युच्चैरमृतमेव / / 14 // (अमृतेत्यादि) अमृतरसस्याऽऽस्वादस्तं जानातीत्यमृतरसाऽऽस्वादज्ञः कुभक्तरसलालितोऽपि कुभक्तानां कदशनाना यो रसस्तेन लालितोऽप्यभिरमितोऽपि पुरुषो बहुकालं प्रभूतकाल नैरन्तर्यवृत्त्याऽत एवं 'कालाध्वनोरत्यन्तसंयोगे' / / 2 / 3 / 5 / / इति द्वितीया / त्यक्त्वा परित्यज्य तत्क्षणं तस्मिन्नेव क्षणे, शीघ्रमेनं कुभक्तरसममृतरसज्ञत्वेन वाञ्छत्यभिलषत्युचैरमृतमेव सुरभोज्यममृतमभिधीयते / तद्धि सर्वरससंपन्नत्वात् स्पृहणीयमतितरां भवति॥१४॥ एवं त्यपूर्वकरणात्, सम्यक्त्वामतरसज्ञ इह जीवः। चिरकालाऽऽसेवितमपि, न जातु बहु मन्यते पापम् / / 25 / / (एवं त्वित्यादि) एवं त्वपूर्वकरणात्। एवमेवापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसज्ञ इह जीवः सम्यक्त्वामृतरसमनुभवद्वारेण जानातीति तज्ज्ञ उच्यते / चिरकालाऽऽसे वितमपि प्रभूतकालाभ्यस्तमपि न जातुचित् न कदाचित् बहु मन्यते बहुमानविषयीकरोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य वा प्रवचनोपघाताऽऽदि / इह च कुभक्तरसकल्पं पापमिथ्यात्वाऽऽदि / अमृतरसाऽऽस्वादकल्पो भावः सम्यक्त्वाऽ5दिवसेय इति॥१५॥ सम्यक्त्वामृतरसज्ञो जीवः पापं न बहु मन्यते इत्युक्तम् / तत्र सम्यगदृष्टिरपि विरतेरभावात् पापं कुर्वन् दृश्यते एवेत्याशयाऽऽहयद्यपि कर्मनियोगात्. करोति तत्तदपि भावशून्यमलम्। अत एव धर्मयोगात्, क्षिप्रं तसिद्धिमाप्नोति।।१६।। यद्यपि कथञ्चित् कर्मनियोगात् कर्मव्यापारात् करोति विदधाति तत पाप तदावशून्यमलं तदपि क्रियमाणं पापं भावशून्यमिह पापवृत्तिहेतुर्भावः क्लिष्टाध्यवसायस्तेन शून्यमलमत्यर्थ सम्यग्दृष्टिर्हि पापं कुर्वाणोऽपि न भावतो बहुगन्यते। यथेदमेव साध्विति। अत एव पापाsबहुमानद्वारण। धर्मयोगाद्धोत्साहासर्मसंबन्धाद्वा क्षिप्रमचिरेण तत् सिद्धिमाप्नोति धर्मनिष्पत्तिमवाप्नोतीति // 16 // षो० 3 विव०। (11) अस्य स्वलक्षणमिदं धर्मस्येत्युक्त प्राक्तत्रास्यैव धर्मतत्त्वस्य विस्तरेण लिङ्गान्याहसिद्धस्य चास्य सम्यग, लिङ्गान्येतानि धर्मतत्वस्य / विहितानि तत्त्वविद्भिः, सुखावबोधाय भव्यानाम्॥१॥

Loading...

Page Navigation
1 ... 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456