Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1441
________________ धुयवाय 2763 - अभिधानराजेन्द्रः - भाग 4 धुयवाय परस्परगुणनिकायां, मीमांसायां वा / एकोऽपरमाहत्वं नजानीये, न चैषां शब्दानामयमर्थो यो भवताऽभाणि। अपि च कश्चिदेव मादृशः शब्दार्थनि यायालं न सर्व इत्युक्ते च पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिद न वा वादिनि च मल्लमुख्ये च मादृगेवान्तरं गच्छेत् / द्वितीयस्त्वाहनन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराहसोऽपि वाक्कुण्ठो बुद्धिविकलः किं जानीते, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि, दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामा पादयन् स्वौद्धत्यमाविर्भावयन भाषते। उक्तं च"अन्ये स्वेच्छारचिता-नर्थविशेषान् श्रमेण विज्ञाय। कृत्स्नं वाइभयमित इति, खादन्त्यङ्गानि दर्पण // 1 // क्रीडनकगीश्वराणां, कुक्कुटलावकसमानवाल्लभ्यः। शास्त्राप्यपि हास्यकथां, लघुता वा क्षुल्लको नयति / / 2 / / " इत्यादि। पाठान्तर वा-"हेचा उवसम अहेगे फारुसिय समारुहति।" त्यक्तोपशमम्, अथानन्तरं बहुश्रुतीभूता एके, न सर्वे , परुषतामालम्बते, ततश्चालपिता शब्दिता वा तूष्णीं भावं भजन्ते, हुङ्कार शिरः कम्पनाऽsदिना वा प्रतिवचनं ददति / किञ्च-(वसित्ता इत्यादि) एके पुनर्ब्रह्मचर्य संयमः, तत्रोषित्था, आचारो वा ब्रह्मचर्य, तदर्थोऽपि ब्रह्मचर्यमेव, बोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भसितास्तामाझा तीर्थकरोपदेशरूपां नो मन्यमानाः, नोशब्दो देशप्रतिषेधे, देशतस्तीर्थकरोपदेशन बहु मन्यमानाः सातगौरवबाहुल्याच्छरीरयाकुशिकतामालम्बन्ते। यदि वा अपवादमालम्ब्य प्रवर्तमाना उत्सर्गचोदनाचोदिताः सन्तो नैषा तीर्थकराऽऽज्ञेत्येवं मन्यन्ते / दर्शयन्ति चाऽपवादपदानि- "कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहियं / " इत्यादि / ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकर्माऽऽद्यपि कार्यं स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः, यथा-आशातनाबहुलानां दीर्घः संसार इति॥१०१॥ तदुच्यतेअग्घा(क्खा)यं तु सोचा णिसम्म समणुण्णा जीविस्सामो, एगे णिक्खम्म ते असंभवं ता वि मज्झमाणा कामे हिं गिद्धा अज्झोववण्णा समाहिमाघायमजुसंता सत्थारमेव फरुसं वदंति॥१०२।। (अग्घायं ति) तुरवधारणे / आख्यातमेवैतत् कुशीलविपाकाऽऽदिकं श्रुत्वा निशम्यावबुद्ध्य चाऽऽशास्तारमेव परुष वदन्तीतिसम्बन्धः। किमर्थ तर्हि शृण्वन्तीति चेत्तदाह-"समणुण्णा' इत्यादि। समनोज्ञाः लोकसम्मताः, जीविष्यामइति कृत्वा प्रश्नव्याकरणार्थ शब्दशास्त्राण्यधीयते / यदि वा-अनेनोपायेन लोकसम्मता जीविष्याम इति कृत्वैके निष्क्रम्याऽथ वा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयादसम्भवन्तस्ते गौरवत्रिकान्यतरदोषा ज्ञानाऽऽदिके मोक्षमार्गे न सम्यग् भवन्तो नोपदेशे वर्तमाना विविधं दह्यमानकामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु समाधिमिन्द्रियप्रणिधानमाख्यातं तीर्थकृतादिभिर्यमावेदितं तमजुषन्तः सेवमाना दुर्विदग्धा आचार्याऽऽदिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुष वदन्तिनास्मिन् विषये भवान् किञ्चन जानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते, इत्ये वमाचार्याऽऽदिकं शास्तारं हीलयन्ति परुषं वदन्ति / यदि वा-शास्ता तीर्थकृताऽऽदिस्तमपि परुषं वदन्ति। तथाहि-वचित् स्खलितचोदिता जगदुः-केमन्यदधिकं तीर्थकृद्रक्ष्यत्यस्मद्गलकर्तनादपीति। इत्यादिभिरपाचीनैरालापैरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः / / 102 / / न केवलं शास्तारं परुष वदन्त्यपरानपि साधूनपवदेयुरित्येत-दाहसीलमंता उवसंता (संखाए) रीयमाणा असीला अणुवयमाणस्स वितिया मंदस्स बालया॥१०३।। (सीलमंता इत्यादि) शीलमष्टादशशीलाङ्गसहस्रसंख्यम्। यदि-वामहाव्रतसमाधान, पोन्द्रियजयः, कषायनिग्रहस्विगुप्तिगुप्तता चेत्येतच्छील विद्यते येषां ते शीलवन्तः। तथोपशान्ताः कषायापेशान्ताः कषायोपशमात् / अत्र शीलवद्ग्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम्। सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या प्रज्ञा, तया रीयमाणाः संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतयाऽशीला एत इत्येवमनुवदतोऽनु पश्चाद्वदतः पृष्ठतोऽपृष्ठतोऽपवदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थाऽऽदेर्द्वितीयैषा मन्दस्यान्यस्य बालता मूर्खता, एकं तावत् स्वतश्चारित्रापगमः, पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता।यदिवा-शीलवन्त एते उपशान्ता वेत्येवमन्ये - नाभिहिते, केषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनु वदतो हीनाऽऽचारस्य द्वितीया बालता भवतीति / / 103 / / अपरे च वीर्यान्तरायोदयात् स्वतोऽवसीदन्तो पामरसाधुप्रशंसाऽन्धिता यथाऽवस्थितमाचारगोचरमावेदयेयु रित्येतद्दर्शयितुमाहणियट्टमाणा वेगे आयारगोयरमाइक्खंति / 104|| णाणभट्ठा दसणलूसिणो णममाणा एगे जीवितं विप्परिणामंति॥१०५।। पुट्ठा वेगे ण्णियटृति जीवियस्सेव कारणा णिक्खंतं पि तेसिं दुपिणक्खंतं भवंति / / 106|| (णियट्टमाणा इत्यादि) एके कर्मोदयात्संयमान्निवर्तमाना लिङ्गादा, वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षतेवयं तु कर्तुमसहिष्णव आचाररत्वेवं भूतमित्येषां द्वितीया बालता न भवत्येव, न पुनर्वदन्त्येवम्भूत एवाऽऽचारो योऽस्माभिरनुष्ठीयते, साम्प्रतंदुःषमाऽनुभावेन बलाऽऽद्यपगमान्मध्यभूतैव वर्तिनी श्रेयसी, नोत्सर्गावसर इति / उक्त हि"नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः। यथा भद्रं वहन्त्यश्वाः, योगः सर्वत्र पूजितः।।१।।" अपि च"जो जत्थ होइ भग्गो, उवसास सो परं अविदंतो। गंतुं तत्थ वयंतो, इमं पहाणं ति घोसेइ" / / 1 / / इत्यादि। / / 104 / / किम्भूताः पुनरेतदेव समर्थये युरित्याह-(णाणभट्ठा) सदसद्विवेको ज्ञानं, तस्माद् भ्रष्टाः / तथा-(दंसणलूसिणो त्ति) सम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतो विनष्टा अपरानपि शड्कोत्पादनेन सन्मार्गाद् च्यावयन्ति। अपरे पुनर्बाह्यक्रियोपेता

Loading...

Page Navigation
1 ... 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456