Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1371
________________ धम्म 2663 - अभिधानराजेन्द्रः - भाग 4 धम्म कार्थिकानि चैतानि प्राणाऽऽदीनि वचनानीत्यतस्तेषा क्षान्त्यादिक दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितमनु विचिन्त्य स्वपरोऽयं भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमानाचक्षीत प्रतिपादयेदिति। यथा च धर्म कथयेत्तदाहअणुवीइ भिक्खू धम्ममाइक्खमाणे णो अत्ताणं आसाइजा, णो परं आसाएज्जा, णो अण्णाइं पाणाई भूताई जीवाइं सत्ताई आसाएज्जा, से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे, एवं से सरां भवति महामुणी। "अणुवीइ भिक्खू' इत्यादि यावत् "सरणं भवति महामुणि त्ति'। सभिक्षुमुमुक्षुरनुविचिन्त्य पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तधर्ममाचक्षाणः, आडितिमर्यादायां, यथाऽनुष्ठानं सम्यग्दर्शनाऽऽदेः शातना आशातना, तमात्मानं नो आशातयेत्, तथा धर्ममाचक्षीत,यथाऽऽत्मन आशातना न भवेत्। यदि वा आत्मन आशातना द्विधा-द्रव्यतो, भावतश्च / द्रव्यतो यथाऽऽहारो-पकरणाऽऽदेव्यस्य कालातिपाताऽऽदि-कृताऽऽशातना बाधा न भवति तथा कथयेत्, आहाराऽऽदिद्रव्यबाधया च शरीरस्यापि पीडाभावाऽऽशातनारूपा स्यात, कथयतो वा यथा गात्रभङ्ग रूपा भावाऽऽशातना न तस्य स्यात्तथा कथयेदिति। तथा न परं शुश्रुषुराशातयेत, यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेताऽतस्तदाशातनां वर्जयन धर्म ब्रूयादिति / तथा नान्यान् वा-सामन्येन प्राणिनो भूतान् जीवान् नो आशातयेद्बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातकैरनाशातयन् तथा परानाशातयतोऽननुमन्य-मानोऽपरेषां वध्यमानानां प्राणिनां भूताना सत्त्वानां जीवानां यथा पीडा नोत्पद्यते तथा धर्म कथयेदिति / तद्यथा यदि लौकिककुप्रावचनिकपार्श्वस्थाऽऽदिदानानि प्रशंसत्यवटतडागाऽऽदीनि वा, ततः पृथिवीकायाऽऽदयो व्यापादिता भवेयुः, अथ दूषयति-ततोऽपरेषामन्तरायाऽऽपादनेन तत्कृतो बन्धविपाकानुभवः स्यात्। उक्तं च-"जे उ दाणं पसंसंति, वहमिच्छ ति पाणिणं / जे उणं पडिसेहंति, वित्तिच्छेयं करंति ते // 1 // " तस्मात्तदवटतडागाऽऽदिविधिप्रतिषेधव्युदासेन यथाऽवस्थितं दानं शुद्ध प्ररूपवेदसावद्यानुष्ठानं चेति / एवं च कुर्वन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीत्येतद् दृष्टान्तद्वारेण दर्शयति-यथाऽसौ द्वीपोऽसंदीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतो वध्यमानानां बधकानां च तदध्ययवसायान्निवर्तते, न विशिष्टगुणस्थानाऽऽपादनाच्छरण्यो भवति / तथाहि यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् काँश्चन प्रव्राजयति, काश्चन श्रावकान्विधते, काँश्वन सम्यग्दर्शनयुतान् करोति, केषाञ्चित्प्रकृतिभद्रतामापादयति। आचा० 1 श्रु०६ अ०५ उ०। किञ्चान्यत्सयं समेचा अदुवा वि सोचा, भासेज धम्मं हिययं पयाणं / जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा / / 16 / / स्वयमात्मना परोपदेशमन्तरेण समेत्य ज्ञात्वा चतुर्गतिकं संसार, तत्कारणानि च मिथ्यात्वाविरतिप्रमादकषाययोगरूपाणि, तथाऽशेषकर्मक्षयलक्षणं मोक्षं, दत्कारणानि च सम्यग्दर्शनज्ञानचारित्राणि, एतत्सर्व स्वतएवावबुद्ध्यान्यस्माद्वाऽऽचार्याऽऽदेः सकाशात् श्रुत्वाऽन्यस्मै मुमुक्षवे धर्म श्रुतचारित्राऽऽख्यं भाषेत। किंभूतम्? प्रजायन्त इति प्रजाः स्थावरजङ्गमा जन्तवः, तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति / उपादेयं प्रदर्श्य हेयं प्रदर्शयति-ये गर्हिता जुगुप्सिता मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः, सह निदानेन वर्तन्त इति सनिदानाः, प्रयुज्यन्त इति प्रयोगा व्यापाराः, धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्पूजालाभसंस्काराऽऽदिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपांस्तांश्चारित्रविघ्नभूतान् महर्षयः सुपीरधर्माणो न सेवन्ते नानुतिष्ठन्ति / यदि वा-ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-- कुतीर्थिकाः सावद्यानुष्ठानाविरता निःशीला अनिर्वृताः कुटिलवेण्टलकारिण इत्येवभूतान् परदोषोद्-घाटनया मर्मवेधिनः, सुधीरधर्माणो वाकण्टकान् न सेवन्ते न ब्रुवत इति॥१६॥ किं चान्यत्केसिंचि तक्काइ अबुज्झ भावं, खुद पि गच्छेज्ज असद्दहाणे। आउस्स कालाइचरं वधाए, लद्धाणुमाणे य परेसु अढे // 20 // केषाञ्चिन्मिथ्यादृष्टीना कुतीर्थिकभावितानां स्वदर्शनाग्राहिणां, तर्कया वितर्केण स्वमतिपर्या लोचनेन, भावमभिप्राय दुष्टान्तःकरण-- वृत्तित्वमबुध्वा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छयातीर्थिकतिरस्कारप्रायं वचो ब्रूयात्, सचतीर्थिकस्तद्वषोऽश्रद्दधानोऽरोचयन्नप्रतिपाद्यमानोऽतिकटुकं भावयेत, क्षुद्रत्य मपि गच्छेद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाऽऽचार्यस्येति / क्षुद्धत्वगमनमेव दर्शयतिस निन्दावचनकुपितोऽपि वक्तुर्यदायुस्तस्याऽऽयुषो व्याघातरूपंपरिक्षयस्वभाव कालातिचार दीर्घस्थितिकमप्यायुः संवर्तेत / एतदुक्तं भवतिधर्मदेशना हि पुरुषविशेष ज्ञात्वा विधेया / तद्यथा- कोऽयं पुरुषो राजाऽऽदिः कञ्चन देवताविशेषं गतः कतरद्वा दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाध्यमित्येवं सम्यक् परिज्ञाय यथार्ह धर्मदेशना विधेया। यश्चैतदबुवा किश्चिद्धर्म-देशनाद्वारेण परविरोधकृद्वचो ब्रूयात् स परस्मादैहिकाऽऽमुष्मि-कयोमरणाऽऽदिकमपकारं प्राप्नुयादिति / यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः परेषु प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्याऽर्थान् सद्धर्मप्ररूपणाऽऽदिकान् जीवाऽऽदीन् स्वपरोपकाराय ब्रूयादिति / / 20 / / सूत्र 01 श्रु०१३ अ०। जे भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेइए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवाई किट्टिए धम्मं // 57 //

Loading...

Page Navigation
1 ... 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456