Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1399
________________ धम्मदेसणा 2721 - अभिधानराजेन्द्रः - भाग 4 धम्मदेसणा सद्धर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण / / 13 / / बालाऽऽदीनां भावः परिणामविशेषः, स्वरूपं वा, तमेवमुक्तनीत्या सम्यगवेपरीत्येन, विज्ञायाऽवबुध्य,देहिनां जीवानां, गुरुणा शारवाभिहितस्वरूपेण / यथोक्तम्- "धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः / सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते।।१।।" सद्धर्मरय देशनाऽपि हि प्रतिपादना कर्तव्या / तदनुसारेण बालाऽऽदिपरिणामानुरूपेण यस्य राधोपकाराय संपद्यते देशना, तस्य तथा विधेयेति॥१३॥ अत्रैव हेतुद्वारेण व्यतिरेकगाहयद्भापितं मुनीन्द्रैः, पापं खलु देशना परस्थाने। उन्मार्गनयनमेत-द्भवगहने दारुणविपाकम्॥१४॥ यद्यस्माद्भाषितमुक्तम्, मुनीन्द्रैः समययुक्तः, पापं खलु वर्तते / देशना परस्थान बालसंबन्धिनी मध्यमबुद्धेस्तत्संबन्धिनी बुधस्य स्थाने। किमित्याह... उन्मार्गनयनगुन्मार्गप्रापणमेतद्विपरीतदेशनाकरणम् / भवगहने संसारगहने, दारुणविपाक तीव्रविपाकम्। ते हि विपरीतदेशनया अन्यथा वान्यथा च प्रवर्त्तन्त इति कृत्वा // 14|| कथं पुनर्देशनास्वरूपेण समयोक्तत्वेन सुन्दराऽपि सती परस्थानेऽपायभित्याहहितमपि वायोरोषध-महितं ततश्लेष्मणो यथाऽत्यन्तम् / सद्धर्मदेशनौषध-मेवं बालाऽऽद्यपेक्षमिति / / 15 / / हितमपि योग्यमपि, वायोः शरीरगतस्य वातस्योषधं स्नेहपानाऽऽदि अहितं, नदेवौषधं श्लेष्मणो यथाऽत्यन्तं भवति / तत्प्रकोपहेतुत्वेन सद्धर्मस्य देशनौषधं स्वरूपेण सुन्दरमपि तदवज्ञाहेतुत्वेन एवमहित भवति / (बालाऽऽद्यपेक्षमिति) बालमध्यमबुद्धिबुधापेक्षं तस्मात्तदपायभीरुणातद्धितप्रवृत्तेन च गुरुणा तेषां भावं विज्ञाय, देशना विधेयेति शास्त्रोपदेशः // 15 // षो०१ विव० / गुरुर्दालाऽऽदीनां देशनां विदधातीत्युक्तम्, तत्र विधिमाहबालाऽऽदीनामेषां, यथोचितं तद्विदो विधिर्गीतः। सद्धर्मदेशनाया-मयमिह सिद्धान्ततत्त्वज्ञैः।।१।। वालाऽऽदीनामेषां पूर्वोक्ताना, यथोचितं यथार्हम्, तद्विदो बालाऽऽदिस्वरूपविदः, विधिर्गीतः कथितः। सद्धर्मदेशनायां विषये, अयमिह वक्ष्यमाणः, सिद्धान्ततत्त्वज्ञैरागमपरमार्थनिपुणैरिति / / 1 / / तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशनामाहबाह्यचरणप्रधाना, कर्तव्या देशनेह बालस्य / स्वयमपि च तदाचार-स्तदग्रतो नियमतः सेव्यः / / 2 / / बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा, कर्त्तव्या विधेया, देशना प्ररूपणा, इह प्रक्रमे बालस्याऽऽद्यस्य धर्मार्थिनः, स्वयमपि चाऽऽत्मनाऽपि च, तदाचारः-स चासावाचारश्चोपदिश्यमानाऽऽचारस्तदग्रतो बालस्याऽग्रतो, नियमतो नियमेन, सेव्यो भवत्याचरणीयः। यदि पुनः स्वयमन्यथा सेव्यते, अन्यथा चोपदिश्यते, तदा तद्वितथाशङ्कतं जनयति, अतस्तदाववृद्धये समुपदिश्यमानं तथैवाऽऽसेव्यमिति॥२॥ तामेव बालस्य देशनामाह सम्यग् लोचविधानं, ह्यनुपानत्कत्वमथ धरा शय्या। प्रहरद्वयं रजन्याः, स्वापः शीतोष्णसहनं च / / 3 / / सम्यग लोचविधान लोचकरणं, कथनीयं भवतीति योगः / हिशब्दश्चार्थे सर्वत्राभिसंबन्धनीयः। अनुपानत्कत्वं च-न विद्यते उपानही यस्य सोऽयमनुपानत्कस्तद्भावस्त्तत्त्वम अथ धराशय्या-धरा पृथ्वी सैव शय्या शयनीय, नान्यत्पर्यडाऽऽदि, प्रहरद्वयं रजन्याः स्वापः-प्रथमयामे स्वाध्यायकरण सामान्येनैव साधूनां, द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपन, चतुर्थे पुनः स्वाध्यायकरणं, समयनीत्या शीतोष्णसहनं चशीतोष्णयोः सहनं स्वसामर्थ्याप-क्षमार्तध्यानाऽऽदिपरिहारेण / / 3 / / षष्ठाष्टमाऽऽदिरूपं, चित्रं बाह्यं तपो महाकष्टम्। अल्पोपकरणसंधा-रणं च तच्छुद्धता चैव // 4 // षष्ठाष्टमाऽऽदिरूपं समयप्रसिद्ध, चित्रं नानाप्रकारं, बाह्य तपो महाकष्ट दुरनुचरम, अल्पसत्चैर्दुर्बलसंहननैश्चेति कृत्वा, अल्पोपकरणसंधारणंच अल्पमेवोपकरणम् (संधारणीय) तच्छुद्धता चैव उद्माऽऽदिदोष - विशुद्ध्या / / 4 / / गुर्वी पिण्डविशुद्धि-चित्रा द्रव्याऽऽद्यमिग्रहाश्चैव। विकृतीनां संत्याग-स्तथैकसिक्थाऽऽदिपारणकम्।।५।। गुर्वी पिण्डविशुद्धिराधाकर्माऽऽदित्यागेन चित्रा द्रव्याऽऽद्यभिग्रहाश्चैव द्रव्यक्षेत्रकालभावाभिग्रहाः समयप्रसिद्धाः। विकृतीना संत्यागः क्षीराऽऽ.. दीनाम, तथैकशिक्थाऽऽदिपारणकम् / एकं सिक्थं भोजनं पारणके। आदिशब्दादेककवलाऽऽदिग्रहः / / 5 / / अनियतविहारकल्पः, कायोत्सर्गाऽऽदिकरणमनिशं च / इत्यादि बाह्यमुच्चैः, कथनीयं भवति बालस्य // 6 / / अनियतविहारकल्पोऽनियतश्चासौ विहारश्च नैकक्षेत्रवासित्वम्, तस्य कल्पः सभाधारः, कायोत्सर्गाऽऽदिकरणमनिशं च-कायोत्सर्गस्याऽऽदिशब्दान्निषद्याकरणमासेवनमित्यादि बाह्यमुच्चै ह्यमनुष्ठानं प्रतिश्रयप्रत्युपेक्षणप्रमार्जनकालग्रहणाऽऽदि कथनीय भवति बालस्य सर्वथोपदेष्टव्यं हितकारीति॥६॥ इदानीं मध्यमबुद्धेर्देशनाविधिमाहमध्यमबुद्धेस्त्वीर्या--समितिप्रभृति त्रिकोटिपरिशुद्धम्। आद्यन्तमध्ययोगै-हितदं खलु साधुसवृत्तम् / / 7 / / मध्यमबुद्धस्तु मध्यमबुद्धेः पुनरीर्यासमितिप्रभृति ईर्यासमित्यादिकम्, प्रवचनमातृरूपं साधुसद्वृत्तं, समाख्येयमिति योगः। तच कीदृशं साधूना सदवृत्तम् ?त्रिकोटिपरिशुद्धं रागद्वेषमोहायपरिशुद्धम् / अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः परिशुद्धम्। अथवा-कषच्छेदतापकोटित्रयपरिशुद्धं, प्रवचनमात्रन्तर्गतत्वात् सकलप्रवचनस्य। तस्य च कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेव च वचनमनुष्ठीयमानम्, सद्वृत्तम्, साधुसवृत्तमेव विशिष्यतेआद्यन्तमध्ययोगैर्हितदं खल्विति। आदियोगेन, मध्ययोगेनान्तयोगेनवा, वयसो जीवितव्यस्य वा, हितदमुपकारि।अथवा आदियोगेन प्रथमवयोऽवस्थागतेनाध्ययनाऽऽदिना, मध्यमयोगेन द्वितीयवयोऽवस्थाभाविनाऽर्थश्रवणाऽऽदिना, अन्तयोगेन चरमवयोऽवस्थाभाविना धर्मध्यानाsऽदिना / भावनाविशेषरूपेण, हितद हितकारि हितफलमेवेति // 7 //

Loading...

Page Navigation
1 ... 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456