Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1379
________________ धम्म 2701 - अभिधानराजेन्द्रः - भाग 4 धम्म कर्माङ्गारदाहाऽऽदिभिः क्रियाविशेषैर्जीवोपमर्दकारिणस्तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तर श्लोके क्रियेति / / 2 / / परिग्गहनिविट्ठाणं, पावं तेसिं पवड्डइ / आरंभसंमिया कामा, न ते दुक्खविमोयगा ||3|| (परिग्गह इत्यादि) परि समन्ताद् गृह्यत इति परिग्रहो द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णाऽऽदिषु मसीकारः, तत्र निविष्टानामध्युपपन्नानां गाय गताना, पापमसातवेदनीयाऽऽदिक, तेषां प्रागुतनामारम्भनिः श्रितानां परिग्रहे निविष्टानां, प्रकर्षेण वर्द्धते वृद्धिमुप्याति जन्मान्तरेष्वपि दुर्मोचं भवति। क्वचित्पाठः 'वेरं तेसिं पवड्डइ ति।' तत्र येन यस्य यथा प्राणिन उपमर्दः क्रियते सतथैव संसारान्तर्वर्ती शतशो दुःखभागभवति, जमदग्निकृतवीर्याऽऽदीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः / किमित्यवेम्? यतस्ते कामेषु प्रवृत्ताः कामाश्चाssरम्भैः सम्यग्भृता आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणोऽतो न ते कामसंभृता आरम्भनिःश्रिताः परगृहे निविष्टा दुःखयतीति दुःखमष्टप्रकार कर्म, तद्विमोचका भवन्ति, तस्याऽपनेतारो भवन्तीत्यर्थः / / 3 / / किं चान्यत्आधायकिचमाहेउ, नाइओ विसएसिणो। अन्ने हरंति तं वित्तं, कम्मी कम्मेहँ किच्चती // 4 // (आघायमित्यादि) आहन्यन्ते अपनयन्ति विनाश्यन्ते प्राणिनां दशप्रकारा अपि प्राणा यरिमन् स आघातो मरणं, तरम तत्र वा कृतमग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डाऽऽदिकमाघातकृत्यं तदाधातुमादाय कृत्वा पश्चात् ज्ञातयः स्वजनाः पुत्रकलभ्रातृव्याऽऽदयः। किंभूताः ? विषयानन्वेष्टु शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुखार्जितं वित्तं द्रव्यजातमपहरन्ति स्वीकु र्वन्ति / तथा चोक्तम्"ततस्तेनार्जितैर्द्रव्यैदरिश्च परिरक्षितैः 1 क्रीडन्त्यन्ये नरा राजन् ! हृष्टास्तुष्टा ह्यलङ् कृताः // 1 // " स तु द्रव्यार्जनपरा-यणः सावद्यानुछानकर्मवान् पापी स्वीकृतैः कर्मभिः संसारे कृत्यते छिद्यते, पीड्यत इति यावत् / / 4 / / माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा। नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा / / 5 / / (माया पिया इत्यादि) माता जननी, पिता जनकः, स्नुषा पुत्रवधूः भ्राता सहोदरः, तथा भार्या कलत्रं, पुत्राश्च औरसाः स्व-निष्पादिताः, एते सर्वेऽपि मात्रादयो, ये चान्ये श्वशुराऽऽदयः, ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय नालं समर्था भवन्तीति / इहाऽपि तावते त्राणाय किमुतामुत्रेति / दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा। तेन महासत्वेन स्वजनाऽभ्यर्थितनापि न प्राणिष्वपकृतमपि त्वात्मन्येवेति / / 5 / / किं चान्यत्एयमटुं स पेहाए, परमट्ठाणुगामियं / निम्ममो निरहंकारो, चरे भिक्खू जिणाऽऽहियं / / 6 / / (एयमद्वमित्यादि) धर्मरहितानां स्वकृतकर्मविलुप्यमानानामै- | हिकाऽऽमुष्मिकयोर्न कश्चित्त्राणायेति, एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी प्रत्युपेक्ष्य विचार्याऽवगम्य च, परमः प्रधानभूतो मोक्षः संयमो वा, तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः सम्यग्दर्शनाऽऽदिः,तंच प्रत्युपेक्ष्य, क्त्वाप्रत्यथान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् / तदाह-निर्गत ममत्वं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसो निर्ममः। तथा-निर्गतोऽहड्कारोऽभिमानः पूर्व श्वयेजात्यादिमदजनितः, तथा-तपः-स्वाध्यायलोभाऽऽदिजनितो वा यस्मादसौ निरहड्कारो, रागद्वेषरहित इत्यर्थः / स एवंभूतो भिक्षुर्जिनैराहितः प्रतिपादितोऽनुष्ठितो वा यो मार्गो, जिनानां वा संबन्धी योऽभिहितो मार्गस्तं चरेदनुतिष्ठेदिति।।६।। चिया वित्तं च पुत्ते य, णाइओ य परिग्गहं / चिच्चा ण अंतगं सोयं, निरवेक्खो परिव्वए / / 7 / / (चिचा इत्यादि) संसारस्वभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक त्यक्त्वा परित्यज्य, किं तद्? वित्तं द्रव्यजातं, तथा पुत्रांश्च त्यक्त्या पुढेष्वधिकस्ने हो भवतीति पुत्रग्रहणम् / तथा–ज्ञातीन स्वजनांश्च त्यक्त्वा, तथा-परिग्रहं चाऽऽन्तरं ममरूपत्वं, णकारी वाक्यालकारे। अन्तगच्छतीत्यन्तगो, दुष्परित्यज इत्यर्थः / अन्तको विनाशकारीत्यर्थः / आत्मनि वा गच्छतीत्यात्मगः, आन्तर इत्यर्थः / तं तथाभूतं शोकं त्यक्त्वा परित्यज्य, श्रोतो वा मिथ्यात्वाविरतिप्रमादकषायाऽऽत्मक कर्माऽऽश्रवद्वारभूतं परित्यज्य / पाठान्तरं वा-"चिचा णऽणंतगसोय।" अन्तं गच्छतीत्यन्तग, न अन्तगमनन्तगं, श्रोतः शोकं परित्यज्य निरपेक्षः पुत्रदारधनधान्यहिरण्याऽऽदिकमनपेक्ष्यमाणः सन् मोक्षाय परि समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेदिति। तथा चोक्तम्"छलिया अवयक्खंता, निरावयक्खा गया अविग्घेणं। तम्हा पवयणसारे, निरावयक्खेण होयट्वं // 1 // भोगे अवयक्खंता, पडति संसारसागरे घोरे। भोगेहिं निरवयक्खा , तरंति संसारकतारं / / 2 / / " इति। स एवं प्रजितः सुव्रतावस्थिताऽऽत्माऽहिंसाऽऽदिषु व्रतेषु प्रयतेत / / 7 / / तत्राहिंसाप्रसिध्यर्थमाहदुढवीआउऽगणिवाऊ-तणरुक्खसबीयगा। अंडया पोयजराउ-रससंसेयउब्भिया ||8|| एतेहिं छहिँ काएहिं, तं विजं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही / / 6 / / ''पुढवीआउ'' इत्यादि श्लोकद्वयम् / तत्र पृथिवीकायिकाः सूक्ष्म-- यादरपर्याप्तकापर्याप्तकभेदभिन्नाः, तथाऽप्कायिका अग्निकायिका वायुकायिकाश्चैवभूता एव / वनस्पतिकायिकान्लेशतः सभेदा-नाहतृणानि कुशवचकाऽऽदीनि, वृक्षाश्चूताशोकाऽऽदिकाः। सह बीजैवर्तन्त इति सबीजानि, सबीजानि तु शालिगोधूमयवाऽऽदीनि, एते एकेन्द्रियाः पञ्चापिकाया : / षष्ठत्रसकायनिरूपणायाऽऽह-अण्डजाः शकुनिगृहकोकिलकसरीसृपाऽऽदयः। तथा पोता एव पोतजा हस्तिशरभाऽऽदयः / तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्याऽऽदयः / त

Loading...

Page Navigation
1 ... 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456