Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 21
________________ अथास्मच्छब्दरूपाङ्कितनवस्तवी १९ सएषोऽस्मद्बहुत्वेनान्यपदस्य च द्विवचनेन । स्तुतएवं जिनो देयान्निर्वाणे चरणे रतिम् ॥१०॥ इत्यस्मच्छब्दबहुवचनबहुव्रीहिद्विवचनगर्भो लोकान्तिकदेवविज्ञप्तिरूपः साधारणजिनस्तवःषष्ठः । ॥ अर्हम् ॥ श्रीऋषभवर्द्धमानौ चन्द्राननवारिषेणसंज्ञौ च । शाश्वजिनेश्वरानिति नवीमि चतुरोप्यचतुरोऽपि ॥१॥ दूरस्थितवयं यूयं ध्यानेनासन्नतां गताः । प्रसीदत ममायोग्यस्याप्यचिन्त्यसुखार्पणात् ॥ २ ॥ अत्रस्थ एव वन्देहं साक्षाद्रष्टुमशक्तमान् । युष्मान्मानस एवेह व्यापारो हि सतां मतः ॥ ३॥ सम्पादनानलंभूष्णुमाभिः पुष्पादिकैर्जिनाः । मर्त्यलोकासम्भविभिः पूज्यध्वे सवर्दा सुरैः ॥४॥ दर्शनपूजनवन्दनसेवादिमनोरथोच्छ्रसितमभ्यम्। युष्मभ्यं भद्रं स्तात सनाप्यनाद्यन्तरूपेभ्यः ॥५॥ प्रत्यक्षाश्रितदेवेभ्यः परोक्षाश्रितमत्पुनः । युष्मद्भवेत्फलं तुल्यं सद्भावाद् उभयेष्वपि ॥६॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120