Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 116
________________ श्रीपार्वजिनस्तवनम् । वामेयगेयगुणमानविगानमुक्त पद्मावतीधरणराजवरप्रयुक्त । त्वज्जन्मसंयमसुखानि शिवङ्कराणि __ कामं नमामि जिनराजपदानि तानि॥८॥ तापोच्छेदं दिशदनुदिनं प्राणिनां भावुकानां सिद्धं यस्यामृतरसमयं तुण्डकुण्डात्प्रवृत्तम्। भात्यहस्ते सुवचनसरः पापपङ्कापहारि बोधागाधं सुपदपदवीनीरपूराभिराम्म् ॥९॥ रेवा तावद्विमलसलिला नर्मदा शर्मदापि काशीः काशीकलुषहरिणी तुङ्गभद्रा विभद्रा । तुङ्गा गङ्गा जिनमतसरोनाप्तमन्तःपवित्रं जीवाहिंसाविरललहरीसंगमागाहदेहम् ॥१०॥ भो भो भव्या यदि शिवपुरे मोक्षलक्ष्मीबुभुक्षा सिद्धान्ताब्धि समुपसरत प्रोल्लसन्न्यायचक्रम। निर्णिक्लान्तःपरमगिरिमागारमानन्दहेतुं चूलावेलं गुरुगममणीसङ्कुलं दूरपारम् ॥११॥ मोहद्रोहक्षितितनुरुहोन्मूलने हस्तिहस्तं

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120