Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
नयकर्णिका। ७१ सम्भूय साधुसमयं भगवन् भजन्ते । भूपा इव प्रतिभटाभुवि सार्वभौमपादाम्बुजं प्रधनयुक्तिपराजिता द्राक्॥
हे भगवन् हे श्रीवईमानस्वामिन् मिथः परस्परं विरोधभृतोऽपि विरोधो विरुद्धाऽभिप्रायस्तं बिभ्रति धारयन्ति येते तथा विधाः सर्वे समस्ताअपि नयाः सम्भूय एकीभूय साधुसमीचीनं सुन्दरं ते तव समयं सिद्धान्तं भजन्ते सेवन्ते कं के इव भुवि प्रधनयुक्तिपराजिना भुवि पृथ्व्यां प्रधनाय युद्धाय युक्तिः प्रबलपुण्यबलेना पूर्वसैन्यरचना तया पराजिताः पराजयं प्राप्ताः प्रतिभटाः विपक्षजेतारो भूपाः द्राक्शीघ्रं सर्वा परिपूर्णषट्खण्डभूमीभोग्या यस्य स सार्वभौमश्चक्रवर्ती तस्य पादाम्बुजं चरणकमलमिवेत्यर्थः ॥ २२ ॥ इत्थं नयार्थकवचः कुसुमैर्जिनेन्दुवीरोऽचिंतः सविनयं विनयाभिधेन। श्रीद्वीपबन्दरवरे विजयादिदेवसूरी

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120