Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
प्रथमाजनस्तवनम् । आदिप्रभुं पुण्यशमाऽऽम्रकीरं
नमामि वीरं गिरिसारधीरम् ॥ ४ ॥ चेक्रीय्यतामृषभतीर्थकरेण सातं __ भव्याङ्गिनां जिनवृषाऽनघसत्पुराणम् । निर्धूतहाटकवसूल्लसदङ्गकेन
भावावनामसुरदानवमानवेन ॥ ५ ॥ उत्तानताऽनुकृतचारुचतुर्गतीनि
दुभीतिनीरनिधिसन्तरणोरुनूनि । भत्त्याऽवनम्रवरवासवनागवृन्द
चूलाविलोलकमलावलिमालितानि॥६॥ नैसर्गरोहिततमैः करजैविभान्ति
दीर्घप्रभैरतुलसौख्यकराणि यानि। संप्राप्तरूपजनसंस्तुतिसत्पदानि
संपूरिताभिनतलोकसमौहितानि ॥७॥ श्रीमारुदेव वृषभाङ्कितपादयुग्मा
पादानमुक्तिरमणीकरपीडनस्य । त्वत्कानि सङ्कटघनाऽऽशुगसोदराणि
कामं नमामि जिनराजपदानि तानि ॥८॥

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120