Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीशान्तिनाथस्तुतिः। ५३ पुनःसा० किं कुर्वती सती आभान्ती सती। आभान्तीति शतृप्रत्यये ईपि सिद्धम्। केनाम्भोजेन कमलेन करणभूतेन । कथं भूतेन कमलेन हस्तस्थेन हस्तगतेन ॥ अथवोपलक्षणेतृतीयेति ॥ ४ ॥ ___ इति श्रीशान्तिजिनस्तुतिटीका समाप्ता।
इयं स्तुतिः श्रीललितप्रभसूरिभराम्नायपूर्वकैः कालापेक्षया विनिर्मिता । यतोऽत्र स्तुतौ पादे पादे मगणपञ्चकाः सर्वगुरवो वर्णाः सन्ति ततः पादचतुकमीलने षष्ट्यक्षरप्रमिता एकास्तुतिर्भवति तत एकास्तुतिःषष्टिवारमथवा स्तुतिचतुष्कं पञ्चदशवारं छन्दउक्तयतिभिः पठ्यते तदैका घटिका भवति । इष्टकालेन क्रियादिकं शुभकार्य स्यादित्याम्नायः॥ श्रीवर्द्धमानतः पारंपर्यपट्टोदयाचले। गोभिः सूर्योऽभवच्छीमल्ललितप्रभसूरिराट् ॥ १ ॥ तत्पट्टासनभूषाश्रीविनयप्रभसूरिराट् । राकापक्षपतिज॑ज्ञे जैनक्रियाकलाधरः ॥२॥ तत्पट्टे जयति श्रीमन्महिमाप्रभसूरिराट् ।

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120