Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 113
________________ प्रथमजिनस्तवनम् । दन्तश्रेणीप्रभाऽधःकृतकुमुदहसतक्षीरसच्चन्द्रचन्द्रः स श्रीमानादिनाथः प्रभवतु भविनां भावुकाय प्रकामम्। यस्य व्याख्यानकाले किरति सुरगणः पुष्पवृष्टीविचित्रा आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाः१३ प्रोद्यद्गम्भीरकायप्रतिजितसलिलाऽम्भोधरे हारहीर तारस्फाराजरोचिस्सुयशसिभवति प्रोल्लसच्चक्षुषी मे। दृष्टौनेता विधौ शं वृषभजिनपते गन्धिमालोलभृङ्गज्झङ्काराऽऽरावसारामलदलकमलागारभूमीनिवासे १४ संसारापारपाथोनिधिपुलिनमहो प्राप्तुकामा यदि स्थ श्रीमतीर्थादिकर्तुः क्रमणकजयुगं तस्य संसेवतोच्चैः। गात्रे यस्य प्रवेशं वरगुणततयश्चक्रिरे विश्वपूज्ये च्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥१५॥ श्रीमतीर्थाधिनाथाननवरकमलावासिनि प्राज्ञचेतोऽभीष्टे डिण्डीरपिण्डोज्ज्वलतनुलतिके देवदेवीस्तुतांहे। नम्रीभूनेन्द्रमाले विहितसुखशते पूर्णचन्द्रैकवक्रे वाणीसन्दोहदेहे भवविरहवरं देहि मे देवि सारम्॥१६॥ इत्थङ्कारमहं वृहत्खरतरातिखच्छगच्छाधिप

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120