Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
६. श्रीविनयविजयोपाध्यायविरचिता
हे विभो त्वदुक्तसामान्यधर्मतः एकाकारप्रतीतिः एकशब्दवाच्यता सामान्यं जीवत्वघटत्वचेतनत्वादिकं सामान्यमेव धर्मः सामान्यधर्मस्तस्मात् घटशतेऽपि घटानां शतं घटशतं तस्मिन्नपि एका कारा या बुद्धिर्मतिःसा जाता यस्य स ऐक्यबुद्धिरीदृशो जनो भवेत् त्वदुक्तसामान्यधर्मतः घटशते ऽपि घटत्वंलक्षयेदिति भावः। च पुनः विशेषात् त्वदुक्तविशेषधर्मतः जनाः सर्वे नृसुरादयः प्राणिनो निजं निजं वकीयं स्वकीयं रक्तपीतवर्णादिविशेषणविशिष्टं घटं लक्षयन्तीत्यर्थः समुदायमध्येऽपि भेदकलक्षणैर्विभिद्य गृह्णन्ति न मुह्यन्तीति संमोहहारी महांस्तवोपकारः ॥ ४॥
नैगमो मन्यते वस्तु तदेतदुभयात्मकम्। निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ ___ तदेतत्त्वदुक्तपूर्वो नैगमो नैगमनामा नयः उभयात्मकं वस्तु मन्यते उभौ द्वौ सामान्यविशेषौ

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120