Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
१०६ श्रीपार्श्वचन्द्रकृतंच्छरीरः अरेदश्च उन्नामी च अरेदोन्नामी इति कर्मधारयस्तस्य अरेदोन्नामिनः रोगाभिभूतस्य इत्यर्थः । श्लेषार्थत्वात् जन्तोः कस्य इव नामिन इव यथा नामिनः स्थानिका वर्णाः अर् एत् ओत् इति गुणसंज्ञका भवन्ति आमशब्दस्यापि अरे इति विशेषणं यथा किंभूता आमा अरे इति पीडाशब्दं रोगिणां ददति कथापयन्ति ते अरेदाः । उन्नामयन्ति उई उच्छालयन्ति रोगिणः इति उन्नामिनः अरेदाश्च उन्नामिनश्चेति कर्मधारयः अथवा आयुर्वेदिनोऽपि अरेद इति विशेषणम् । यथा अरे इति पीडाशब्दं द्यति खण्डयतीति अरेदः उत्प्राबल्येन नामयति नाशयति रोगान् इति उन्नामी तस्मात् अरेदोन्नामिन इति सिद्धम् । तथा मया भवान् वीर ईक्षितः दृष्टः अगदङ्कारतुल्य इत्यर्थः मम मोहाद्याः कर्मरोगाः नाशं गमिष्यन्ति इति परिमलः ॥१०॥
अथ आशीर्वादद्वारेणोपसंहारमाह। . एवं कल्याणनिर्वाणकल्याणिकतपो

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120