Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 99
________________ श्रीमहावीरस्तवनम् । अथ सर्वेषां तीर्थङ्कराणां वर्णकद्वारेण श्रद्दधानतया स्तुतिमाह । लक्ष्मवर्णादयोऽनेके वार्द्धिपक्षमिताताम् । ह्रस्वदीर्घप्लुतभेदाः सवर्णा इति मे मतिः ॥ ३ ॥ लक्ष्म इत्यादि । व्याख्या । हे वीर जिन मे मम मतिः ज्ञानं इति प्रकारा वर्त्तते त्वदुक्तमे तत्सर्वमीदृशं श्रद्दधामि इत्यर्थः, इति किं यत् । वार्डिपेति । वार्द्धानां समुद्राणां पक्षः सादृश्यधर्मः 1 तेन मिताः तुलिताः अर्हन्तः गुणवर्णनादीनामपारत्वात् तेषां अर्हतां जिनानां अनेके बहवः लक्ष्मवर्णादयः पदार्थाः सन्ति इत्यन्वयः । कोर्थः लक्ष्माणि चिह्नानि यथा वृषो गजोऽश्वः प्लवग इत्यादीनि ऋषभादिजिनानां क्रमेण ज्ञातव्यानि लक्ष्मीवर्णा इति पाठे लक्ष्मीः सम्पत् यथा वीरस्य चतुर्दशसहस्रमितमुनीनां सम्पत्प्रोक्तेति वर्णाः कायकान्तयः “रक्तौ च पद्मप्रभवासुपूज्यावित्यादि” आदिशब्दोऽत्र ९७

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120