Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 112
________________ श्री सुमतिकल्लोलरचितं ॥ त्रिभिः कुलकम् ॥ सत्कारुण्यामृतरससृतं पावनं सद्विकारं हंसानां ते प्रवचनमिदं मानसाभं जिनेश । सेवाम्यद्धा सकमलमलं पापतापापहे ११० बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ तावच्छीतः शिशिरकिरणो गाङ्गमम्भश्च हृद्यं पीयूषं वाऽविरलसुखदं तापहृत्तावदेव । लब्धं नार्हत्प्रवचनसरोऽन्तः पवित्रं विपत्रं जीवाहिंसाऽविरललहरीसङ्गमागाह देहम् ॥१०॥ लक्ष्मीस्थानं शमदमकरं नीतिसत्सिन्धुपूरं सम्यग्बोधाप्रतिमतरणीलब्धसत्तत्त्वरत्नम् । श्रीस्याद्वादाविरलधवलोल्लासिडिण्डीरपिण्डं चूलावेलं गुरुगममणीसङ्कुलं दूरपारम् ॥११॥ मन्दैर्ज्ञेयं न वरमनिभं साधुनिर्य्यामगम्यं कल्याणाभ प्रथमजिनराट् नाभिराजाङ्गजात । सूक्ष्मार्थानप्रकटनरवे ते नताशेषलेख सारं वीरागमजलनिधिं सादरं साधु सेवे ॥१२॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120