Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
नयकर्णिका। तथा निजं स्वकीयं च भावं वस्तुतया मन्यते कार्यकारित्वात् ॥११॥ __ अतीतेनानागतेन परस्कीयेन वस्तुना। न कार्यसिद्धिरित्येतदसद्गगनपद्मवत् ॥ १२॥
कस्मादेवमित्यत आह॥ अतीतो विगतो भावस्तेन अनागतो भविष्यमाणो यो भावस्तेनापि परस्कीयो यथा सामान्यनरस्य पूर्वतनो वा भविष्यत्पुत्रजीवोऽधुना राजपुत्रत्वं प्राप्तः परं सःपरस्कीयस्तेन वस्तुना जिनैः कार्यसिद्धिर्नोक्ता इति कृत्वा एतदतीतानागतपरकीयपर्यायरूपं वस्तु गगनपद्मवदाका. शारविन्दवदसदविद्यमानं मन्यते ॥ १२ ॥
नामादिषु चतुर्वेषु भावमेव च मन्यते। न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥ १३॥
अयं ऋजुसूत्रनयः एष्वनन्तरवक्ष्यमाणेषु चतु. र्षु निक्षेपेषु एकं भावनिक्षेपमेव वास्तवं मन्यते

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120