Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीपार्श्वचन्द्रकृतं
प्रकारार्थः तेन जिनानां शरीराणि आयूंषि इत्यादयोपि पदार्था गृह्यन्ते । कथंभूताः लक्ष्मवर्णाः । । हस्वेति। हस्वेन लघुना दीर्पण गुरुणा प्लुतेन गुरुतरेण भेदाः भिन्नाः अथवा हखादयो भेदा येषु ते कोऽर्थःप्रथमं लक्ष्मापेक्षया नेमिचिह्नः शङ्खो हस्वः हस्ती प्रौढः वृषभो मध्यम इत्यादिलोकरूढितः। अथ वर्णेन द्वौ जिनौ श्वेतौ द्वौ पीतौ च हस्वशब्देन संगृहीतौ अन्यरक्तादिवर्णेन यो वर्णःश्वेतादिःआच्छाद्यते स वर्णः ह्रस्व इति तात्पर्य इति ह्रस्वाः दीर्घा रक्तौ प्लुताः नीलौ कालौ च एकपदाश्रितौ तरतमयोगेन विवक्षितौ । रक्तौ च०। अथ शरीरेण वीरस्य सप्तहस्ततनुरिति इस्वलघुः द्वाविंशतितीर्थङ्कराणां तर. तमयोगेन शरीरोच्छ्रयः दीर्घः गुरुः इति ऋषभजिनस्य पञ्चशतधनुः शरीरसमुच्छ्रयः प्लुतः गुरुतरः वृहत्तरकाय इत्यर्थः एवं जिनानां आयुःपदे. इस्व १ दीर्घ २ दीर्घतरस्थितयो ज्ञेयाः। पुनः कथं. लक्ष्मव । सवर्णाः वर्णैः कण्ठादिस्थानोद्भवैः १ ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120