Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
साधारणजिनस्तवः।
ज्झित ११ विश्वरुच्य ११ समासलक्षणं समनामविग्रहाच्चकारैर्द्वन्द्वः समासः स्यात् उभयपदप्रधानो द्वन्द्वः यस्य क्रियाऽभिसम्बन्धस्तस्य प्राधान्यं सच द्विविधः इतरेतरद्वन्द्वः १ समाहारद्वन्द्वः२ च। पूर्वस्मिन् द्विवचन बहुवचनं वा कचिदेकवचनमपि यथा एकश्च विंशतिश्च एकविंशतिर्घटानां वा अत्र लिङ्गं तु पुरोवर्त्तमानलिङ्गापेक्षं प्रायो अश्वश्च वडवा च अश्ववडवौ अश्ववडवा इति १ समाहारे तु क्लीबत्वमेकवचनं च १ सारस्वते तु इतरेतरयोगे द्विवचनं नतु बहुवचनं यथा घटश्च पटश्च घटपटौ क्वचिदेकवचनमपि यथा एकविंशतिः लिङ्गं तु पुरो वर्तिशब्दापेक्षं समाहारे तु एकवचनं बहुवचनं च अवयवार्थप्राधान्यविवक्षायां बहुवचनं लिङ्गं तु पुरोवर्तिशब्दापेक्षं समुदायार्थप्राधान्यविवक्षायामेंकवचनं क्लीबलं चेति । व्याख्या । हे सुनाथ हे सिद्धिसौधाधिरूढ हे कम्र्मोज्झित हे विश्वरुच्य ! त्वयि ध्यानानुकम्पाधृतयः सन्ति किं लक्षणाः ध्या

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120