Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीपार्थचन्द्रकृतंतावन्तः शत्रवो दूरं भूयासुस्त्वत्प्रसादतः॥६॥ यावन्त इति । हे प्रभो हे वीर विख्याताः प्रसिद्धाः यावन्तः यावत् संख्याकाः अवर्जाः अकाररहिताः एवं विधाः नामिनः नामिसंज्ञकाः स्वराः सन्ति सारस्वतमते इउऋल एऐओऔ इति अष्टौ नामिनः सन्तीति तावन्तः तावत्सं. ख्याख्याः शत्रवः ज्ञानावरणीयादिकर्मरूपाः अष्टौ त्वत्प्रसादतः दूरं भूयासुः इति स्पष्टम् ॥ ६ ॥
अथ तपोद्वारेण ऋषभमहावीरौ स्तौति । आद्यन्ताभ्यामर्हतां सु प्रसिद्धौ
यौ चक्राते वार्षिकं सामि वर्षम्। विश्वाधीशौ वन्दनीयौ जनानां
नित्यं वन्दे तावहं भक्तियुक्तः॥७॥ आद्यन्तेति।अर्हतां जिनानां आद्यन्ताभ्यां कृत्वा सुप्रसिद्धौ विख्यातौ आदिनाथमहावीरौ सौ वार्षिक

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120