Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
७२ श्रीविनयविजयोपाध्यायविरचिता शितुर्विजयसिंहगुरोश्च तुष्टयै ॥२३॥
नयकार्णिका समाप्ता। इत्थं पूर्वोक्तप्रकारेण नयानामर्थो नयार्थः सोऽस्ति येषां तानि नयार्थकानि नयार्थकानि च तानि वांसि चेति तान्येव कुसमानि पुष्पवृन्दं तैर्नयार्थकवचः कुसुमैः जिनश्वासौ इन्दुश्च जिनेन्दुर्जिनचन्द्रो वीरो वर्द्धमानस्वामी विनयेन सहितो यथा स्यात्तथा स विनयं भूत्वा विनयाभिधेन विनयविजयेति नामकेन मया अर्चितः पूजितः कुत्र कस्मै श्रिया युक्ते द्वीपाख्यबन्दरवरे जलधितटवर्तिनगरश्रेष्ठे यस्य नाम्नि विजयपदमादौ वर्त्तते स तथा विजयदेवसूरिस्तस्य सूरीशितुः शिष्यो विजयसिंहो यो मद्गुरुस्तस्य तुष्टयै सन्तुष्टिकरणाय वीरविभुः पूजित इत्यर्थः ॥ २३ ॥ वृद्धिविजयशिष्येण गम्भीरविजयेन च । टीका कृतेयं कृतिभिर्वाच्यमानास्तु शंकरी ॥१॥
इति मयकार्णिका समाप्ता ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120