Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 78
________________ श्रीजयानन्दसूरीश्वरविरचितः । नानुकम्पाधृतयः प्रधानोल्लासिस्थिराः च पुनः त्वयि ज्ञानसुखक्षममस्तीति शेषः ध्यानं च अनुकम्पा च धृतिश्च ध्यानानुकम्पाधृतयः अयं केवलविशेष्यैरित रेतरद्वन्द्रः प्रधानं च उल्लासिनी च स्थिरा च प्रधानोल्लासिस्थिरा इति केवलविशेषणैरितरेतरद्वन्द्वः १ ज्ञानं च सुखं च क्षमा च ज्ञानसुखक्षमं । तदयं समाहारे द्वन्द्वः २ उक्तो द्वन्द्वः अथ तत्पुरुषलक्षणं तत्पुरुषे पूर्वपदे सप्तापि विभक्तयः उत्तरपदे प्रायः प्रथमा उत्तरपदप्रधानश्च क्वचिदुत्तरपदे ऽपि सप्तमा विना सर्वा अपि विभक्तयः अन्यपदार्थप्रधानत्वं च शोभनो नाथः सुनाथः तस्य सम्बोधनं क्रियते हे सुनाथ | एवं सर्वत्र इति पूर्वपदे प्रथमातत्पुरुषः सिद्धिरेव सौधं सिद्धिसौधं सिद्धिसौधमधिरूढः सिसौधाधिरूढस्तस्य सम्बोधने हे सिद्धिसौधाधि - रूढ इति पूर्वपदे द्वितीयातत्पुरुषः कर्म्मणा उज्झितः कर्मोज्झितस्तस्य सं० इति पूर्वपदे तृतीयातत्पुरुषः विश्वस्मै रुच्यः विश्वरुच्यस्तस्य सम्बो० पूर्वपदे चतुर्थी तत्पुरुषः इति द्वितीयवृत्तार्थः ॥ २ ॥ ७६

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120