Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्री विनय विजयोपाध्यायविरचिता
नामस्थापनाद्रव्याणि न मन्यते तेषां परकीयत्वादनुत्पन्नविनष्टत्वाच्च तत्र नाम वक्तुरुल्लापरूपं वा गोपालदारकादिषु गतमिन्द्राभिधानं परकीयं स्थापना चित्रपटादिरूपा परकीया द्रव्यं पुनर्भाविभावस्य कारणं तच्चानुत्पन्नं भूतभावस्य कार गं तु विनष्टं एवमग्रेतनाः शब्दादयस्त्रयो नयाः भावनिक्षेपमेव स्वीकुर्वन्तीत्यर्थः ॥ १३ ॥
६६
अर्थ शब्दनयोऽनेकैः पर्यायैरेकमेव च । मन्यते कुम्भकलशघटाद्येकार्थवा
चकाः ॥ १४ ॥
शब्दनामा नयः शब्दः पुंस्त्रीनपुंसकाद्यभिधायकोल्लापस्तत्प्रधानों नयः शब्दनयः स अनेकैः शब्द पर्यायैरुक्तोऽपि अर्थ वाच्यं पदार्थमेकमेव मन्यते कुतः हि यस्मात् कुम्भः कलशो घटः एते शब्दाः सर्वदर्शिभिर्जिनैरेकस्य घटाख्यपदार्थस्य वाचकाः कथितास्ततः सिद्धमने कैः पर्यायैरुक्तोऽन्यभिधेय एक एवेत्यर्थः ॥ १४ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120