Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
१४
जनितां जीर्णविशीर्णलुप्तप्रायां स्थितिं शृण्वतां केषां सहृदयानां बत! शोको न समुत्पद्येत ? | सङ्ग्रहकर्तॄणामुदारमाशयमनवबुध्यतां देश क्षेत्र-काल-भावादिकमननुसरतां स्वयं तदुपयोगं कर्तुमशक्नुवतामन्यांश्चानुपयोजयतां पूर्वोक्तां दुरवस्थितिं दृग्गोचरीकुर्वतामपि भाण्डागाररक्षकाणां दुरन्ता गजनिमीलिका कस्य सहृदयस्य न दुःखाय ? । आशास्महेऽतः परमप्रसिद्धग्रन्थप्रकाशनप्रसङ्ग प्रशस्तपद्धत्या प्राचीनान् प्रन्धान् प्रकाशयिध्यै विश्वासाहयै संस्थाया आदर्शपुस्तक प्रेषणप्रदानप्रवणा प्रशस्ता मतिरेषां प्रादुर्भवेत् 1
(२)
तपागच्छ-भाण्डागारः ।
तपागच्छोपाश्रयसस्कोऽयं भाण्डागारः केन कदा भृत इति स्फुटं न ज्ञायते, तथापि तपागच्छीयानन्दविमलसूरिशिष्यपं० वानरगणिशिष्यपं० आनन्दविजयगणिना सं. १६५९ वर्षे प्रतिमोचनेनायं चित्कोशो वृद्धि प्रापितो ज्ञायते (पृ. ५३, ५५ ) । हीरविजयसूरिमूर्तिरेतदुपाश्रये वर्तते । सप्तदशशताब्द्यां तपागच्छीयसाधूनां विचरणमित आसीदिति स्पष्टमवबुध्यते । तपागच्छाश्रितः सुपार्श्वजिनालयस्त्वर्वाचीनः सं. १८६९ वर्षे प्रतिष्ठितः ( परि०२२ ) । बृहद्भाण्डागारादपि प्राचीनं सं. ११०९ वर्षे लिखितं पञ्चमीकहाग्रन्थस्य ताडपत्रीयमादर्शपुस्तकमत्र वर्तते (पृ. ५२ ); अस्मादेवादर्शात् सं. १६५१ वर्षे पं० आनन्द विजयगणिशिष्य पं० बुद्धिविमलेनानुलेखिते पत्तनभाण्डागारस्थे पुस्तके तु सं. १००९ वर्षे तत्ताडपत्र पुस्तक लेखनं समसूचि । एतस्मात् प्राचीनं ताडपत्र पुस्तकं नाद्यावधि कुत्राप्युपलब्धं श्रुतं वाऽस्माभिः । सं. १११५ वर्षे लिखिता हरिभद्रसूरिरचितपञ्चाशकानां प्रतिरपि प्राचीनाsत्र वर्तते (पृ. ५१ ) । एष वृत्ति: सं. ११२४ वर्षे नवाङ्गवृत्तिकर्त्राऽभयदेवसूरिणा विहिता ।
(३) डुंगरजीयति-सङ्ग्रहः ।
जेसलमेरुदुर्गे विवेकसमुद्रगणिना सं. १३३४ वर्षे विहितायाः पुण्यसारकथायाः पुस्तकमन्त्र प्रेक्ष्यते । ऊनविंशशताब्दीप्रणीतानि पुस्तकान्यपि सङ्गृहीतान्यत्र विलोक्यन्ते । सङ्ग्रहकर्तृविषये ज्ञातव्यं न किंचिदपि ज्ञातम् ।
(४)
थी (थाहरू) शाह- भाण्डागारः ।
प्रो. श्रीधर भाण्डारकरेण चीमनलालदलालेन चैतद्भाण्डागार स्वामिनो नाम 'थीरुशा' इति दर्शितम्, किन्तु शिलालेखाद्युल्लेखानुसारेण सप्तदशशताब्द्युत्तरार्धे विद्यमानो जेसलमेरुनिवासी जैन श्रेष्ठी थाहरूनामधेयः स विज्ञायते; येन सं. १६७५ वर्षे लोद्रवापत्तने चिन्तामणिपार्श्वजिना - यस्योद्धारः कारितः (परि० ६ ), चिन्तामणिपार्श्वजिनबिम्बमपि कारितम् । सं. १६८२ वर्षे यश्च
पतिर्भूत्वा शत्रुञ्जये गणधराणां पादुकाः स्थापयामास (एपिग्राफिआ इण्डिका २ । ६८) । पश्च पुनः सं. १६९३ वर्षे लोद्रवापुरि स्वजनश्रेयोऽर्थं नैकानि देवगृहानि कारयामास (परि० ७,८,९,१०,११,१२)।
चतुषु पुस्तकसङ्ग्रहेषु यानि पुस्तकान्यत्युपयुक्तान्यवगतानि तानि सर्वाण्यपि दलालेन प्रायोsa संसूचितानि । एतन्मध्यात् केचिदू ग्रन्थाः सूचिपत्रसङ्कलनकाले मुद्रिता आसन्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180