Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 69
________________ [अप्रसिद्ध श्रुत इत्यस्या रचना त्रयोदशशताब्दीपूर्वार्धेऽनुमीयते । अंशोद्धाररूपेयं वृत्तिः 'वायना' (Vienna) इत्यत्र मुद्रिता श्रूयते न तु दृष्टा । अपवर्गनाममाला । जिनभद्रः पृ. ४५ जैनग्रन्थावल्यां, H. प्रतिप्रान्ते, ही. सूचिपत्रे चास्याः ‘पञ्चवर्गपरिहारनाममाला' इति नाम दृश्यते, दलालेनापि तथैव दर्शितमासीत्। तथाप्यस्याः प्रारम्भप्रान्ते विलोकितेऽपवर्गनाममालेत्येव नाम सम्यक् प्रतिभाति । कोशकारोऽयं जिनभद्रसूरिरात्मानं जिनवल्लभसूरि-जिनदत्तसूरिसेवकत्वेन न्यदर्शयत् , जिनप्रिय(वल्लभ)स्य विनेयत्वेन च स्वं पर्यचाययदतो द्वादशशताब्यामस्या रचनाऽनुमीयते । नामकोशः । सहजकीर्तिः पू. ५८ षट्काण्डान्वितः सलिङ्गनिर्णयोऽयं कोशः सप्तदशशताब्द्याश्चतुर्थे चरणे रचितो विज्ञायते, यतः सं. १६८३ वर्षेऽनेन ग्रन्थका शतदलकमलालङ्कृता लोद्रपुरीयपार्श्वजिनस्तुतिः कृताऽत्र (परि० ६) दर्शिता । सं. १६८५ वर्षे चानेन सतीर्थ्यश्रीसारेण साकं स्वगुरुगुरुनाम्ना कल्पमञ्जरीसंज्ञिका कल्पसूत्रवृत्तिर्विनिर्ममे । सं. १६८६ वर्षे महावीरस्तुतिवृत्तिः, सं. १६८८ वर्षे प्रीतिषत्रिंशिका (गू.), अनेकशास्त्रसारसमुच्चयः, ऋजुप्राज्ञव्याकरणम् , एकादिशतपर्यन्तशब्दसाधनिका, सारस्वतवृत्तिः, सिद्ध(?)शब्दार्णव इत्यादिकाऽस्य कृतिरप्येतत्पाण्डित्यं परिचाययति । अयं ग्रन्थकारो खरतरगच्छीयवाचकरत्नसारस्य शिष्यः। सं. १६८६ व्युत्पत्तिरत्नाकरः । देवसागरः पृ. ६१ [P. P. १।१३०] अयं ग्रन्थः सुप्रसिद्धाया हैमीनाममालाया व्याख्यारूपः । ग्रन्थकारोऽयं विधिपक्षगच्छीयविनयचन्द्रवाचकस्य शिष्यः । सं. १६७६ वर्षे, सं. १६८३ वर्षे च शत्रुञ्जयगिरौ कल्याणसागरसूरिप्रतिष्ठितस्य श्रेयांस-चन्द्रप्रभजिनयोः प्रासादद्वयस्य प्रशस्तिरनेन विहिता (प्रा. जै. ले., एपिग्राफिआ इंडिका २१६४,६६,६८,७१) इत्यस्य विद्वत्ता सप्तदशशताब्द्युत्तरार्धे विद्यमानता च स्फुटमवसीयते। एकाक्षरनाममालिका । विश्वशम्भुः पृ. ५७ [ A. ८।१०१, P. P. ६।९४] नाटके। चन्द्रलेखाविजयप्रकरणम् । देवचन्द्रः क्र. २४ पञ्चाङ्कमेतन्नाटकं कुमारपालनृपसत्तायां त्रयोदशशताब्दीप्रारम्भे विरचितं विज्ञायते, यत एतत्प्रारम्भे सूत्रधारमुखेन 'कुमारविहारे मूल नायकपार्श्वजिनवामपा वस्थित श्रीमदजितनाथदेवस्य वसन्तोत्सवे कुमारपालपरिषच्चेतःपरितोषायास्य प्रणयनम्' इति समसूचि । अर्णोराजमन्थनरूपा कुमारपालवीरत्वसूचिका स्तुतिश्चात्र दृश्यते । अयं च देवचन्द्रो मुनिः सुप्रसिद्धस्य हेमचन्द्राचार्यस्य शिष्यः, न स्वयं गुरुर्देवचन्द्रसूरिः । जैनग्रन्थावल्यादावस्य हेमचन्द्रगुरुत्वं दर्शितम्, तत्तु समाननामभ्रान्स्यैवेति व्यक्तं भवति प्रारम्भप्रान्तदर्शनात् । अस्य कवेः सान्निध्यकर्ता शेषभट्टारकः क इति न विज्ञायते । १ विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः __ सान्निध्यैकरतिर्विशेषविधये श्रीशेषभट्टारकः । यस्य स्तः कविपुङ्गवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्रये विजयतात् साद्व(?)ललीलायिते ॥~चन्द्रलेखाविजयप्रान्ते P. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180