Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 143
________________ 68 इतश्च ॥ सम्भवजिनालयप्रशस्तिः । श्रीमानू केशवंशीयं वर्धतां सरलाशयः । नरमुक्ताफलं यत्र जायते जनमंडनं ॥ १ तस्मिम् श्रीऊकेशवंशे चोपडागोत्रे । सा० हेमराजः तदंगजः सा० पूनाकस्तदात्मजः सा० दीताख्यस्तरपुत्राः सा • सोहड कर्मण गणदेव महिपा सा० पांचा सा० ठाकुरसिंहनामानः षट् । तत्र सा० पांचाभार्या रूपादे तत्पुत्रा इमे यथा ॥ Jain Education International शिवराजमहीराजलोलालाषणनामकाः । चत्वारः श्रीचतुर्वर्गसाधकाः संति पांचयः ॥ १ एतेषां भगिनी श्राविका गेली ! तत्र सा० शिवाभार्या सूहवदे तयोः पुत्रः थिराख्यः पुत्री हीराई | महिराभार्या महघलदे तयोरंगजाः सादा सहसा साजणाख्याः सुते नारंगदेबलहीनान्यौ । लोलाभार्या लीलादे पुत्रौ सहजपालमेलाकौ पुत्री लाषाई । लाषणभार्या लषमादे तदात्मजाः शिखरा समरा मालाख्याः ॥ इत्यादिपरिवारेण संयुताः श्रावका इमे । कुर्वति धर्मकार्याणि शासनोन्नतिहेतवे ॥ १ विक्रमवर्षचतुर्दशसप्ताशीतौ विनिर्ममे यात्रा । शत्रुंजय रेवत गिरितीर्थे संघान्वितैरेभिः ॥ २ पंचम्युद्यापनं चक्रे वत्सरे नवतौ पुनः । चतुर्भिर्बादैरेभिश्चतुर्धा धर्मकारकैः ॥ ३ अथ संवत् १४९४ वर्षे श्रीवैरिसिंह राउलराज्ये श्रीजिनभद्रसूरीणामुपदेशेन नवीनः प्रासादः कारितः । ततः संवत् १४९७ वर्षे कुंकुमपत्रिकाभिः सर्वदेशवास्तव्य परः सहस्रश्रावकानामंत्र्य प्रतिष्ठा महोत्सवः सा० शिवाद्यैः कारितः । तत्र च महसि श्रीजिनभद्रसूरिभिः श्रीसंभवनाथ प्रमुखबिंबानि ३०० प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः प्रतिष्ठितः । तत्र श्रीसंभवनाथो मूलनायकरवेन स्थापितः । तत्र चावसरे सा० शिवा महिरालो लालापणश्राद्धैः दिन ७ साधर्मिक वात्सल्यं कृतं राउल श्रीवैरसिंहेन साकं श्रीसंघो विविधवस्त्रैः परिधापितः । राउलश्रीवैरसिंहेनापि चत्वारस्ते बांधवाः स्वबांधववद्वस्त्रालंकारादिदानेन सम्मानिता इति ॥ ॥ अथ जिनपतिपार्श्वे राजतां यत्प्रसादात् सकलसुकृतकार्य सिध्यति ध्यायकानां । जिनकुशलमुनींद्रास्ते जयंतु त्रिलोक्यां खरतर विधिपक्षे तन्वते ये सुखानि ॥ १ सरस्यामिव रोदस्यां पुष्पदंतौ विराजतः । हंसवनंदतात्तावत् प्रासादः संभवेशितुः ॥ २ प्रासादकारकाणां प्रासादविधिप्रतिष्ठितिकराणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां संपत् ॥ ३ सेवायै त्रिजगज्जनान् जिनपतेर्यच्शृंगमूले स्थिता दंडव्याजभृतस्त्रयः सुपुरुषा आमंत्रयंति ध्रुवं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180