Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 46
________________ जैनोपदेशग्रन्थाः ] पौषधविधिप्रकरण-जिनकल्याणकस्तोत्र-जिनचरित्रमयजिनस्तोत्रादयोऽनेके ग्रन्था जग्रन्थिरे । संवेगरङ्गशाला च (पृ.२१) संशोधिता । जैनप्रन्थावल्यां तीर्थङ्करस्थानप्रकरण-पर्यन्तोपदेश-प्रतिक्रमणसामाचारी-रत्रचूडकथा-जिनभद्रीयसङ्ग्रहणीवृत्याद्यपि प्रस्तुतसूरिकृतं सूचितम् , किन्तु तत् शक्षितम् । अनेनाभयदेवसूरिपार्धेऽधीत्य चैत्यवासं त्यक्त्वा गृहस्थगेहवसतिः स्वीकृतेति नैकनोलेख उपलभ्यते (पृ. २)। गणधरसार्धशतकादिग्रन्थकारो जिनदत्तसूरिरस्य शिष्यो गणधरसार्धशतक-चर्चर्यादावस्य भूरिगुणान् प्राशंसत् । सत्तरि-षडशीतिटिप्पनकारो रामदेवगणिरस्य शिष्यः । सडिसयप्रकरणका भां० नेमिचन्द्रेण चित्रकूटीयचामुण्डाऽऽदिप्रतिबोधकस्य प्रस्तुतसूरिवर्यस्य गुणवर्णनगीतानि विहितानि । नागपुरे नेमिनाथजिनालयनिर्माता वैराग्यशतककर्तुः पमानन्दकवेर्जनको धनदेवश्रेष्ठी चैत्यवासप्रतिषेधकस्यास्य सूरेभक्त आसीत् । गणधरसार्धशतकवृत्यादावस्य चरितं विशेषतो दर्शितं द्रष्टव्यम् । अयं सूरिवों द्वादशमिरेतैः कुलकैर्गणदेवश्राद्धेन वाग्जडदेशलोकं प्राबोधयदिति विवृतिकारेण प्रारम्भे प्रोक्तम् । नेवाङ्गीवृत्तिकाराभयदेवसूर्यादेशाद् गुणगरिष्टमेनं सं. ११६७ वर्षे देवभद्राचार्यः (पृ. ४७) सूरिपदे न्यस्तवान् । तदनन्तरं च षण्मासैरस्य स्वर्गमनं श्रूयत इत्येतेषां कुलकानां रचनासमयो द्वादशशताब्या उत्तरार्धप्रारम्भरूपोऽथवा पूर्वार्धरूपोऽवसीयते। विवरणकारस्त्वयं जिनपाल उपाध्यायो जिनपतिसूरेः शिष्यः, येन सं. १२१२ वर्षे षट्स्थानकवृत्तिः, सं. १२९३ वर्षे पञ्चलिङ्गीविवरणटिप्पनम्, सं १२९४ वर्षे उपदेशरसायन-चर्चरीविवृती, सनस्कुमारचरित्र-स्वमविचाराष्टस्वप्नभाष्यादि विहितम् । विवृतिकāदं विवरणं जिनेश्वरसूरिवाक्याद् (पृ. ४०) विहितमिति स्वयमत्र समसूचि । ले. सं. १३१० हितोपदेशामृतम् । परमानन्दसूरिः क्र. ३०१(५) प्राकृतभाषायां पञ्चविंशत्यधिकपञ्चशतगाथाप्रमाणमेतत् पत्रसङ्ख्याया आधिक्येन सवृत्तिक सम्भाव्यते । अयं परमानन्दसूरिः स्वमभयदेवसूरिशिष्यदेवभद्रसूरेः शिष्यस्वेन परिचाययति म । श्रीधरभाण्डारकरेणास्य लेखनसमयो रचनासमयत्वेन निर्दिष्टो न सम्यग् । 'हितोपदेशमालावृत्तिः सूत्रकारप्रभा(?)नन्दभ्रातृपं० परमानन्दीया १३०४ वर्षे ९५०० ।-वृ० इत्युल्लेखोऽस्य वृत्तिविषयकः प्रतिभाति । , "धर्मोपदेशकुलकाङ्कितसारखैः श्राद्धन बन्धुरधियो गणदेवनाना । प्राबोधयन् सकलवाग्जडदेशलोक सूर्योऽरुणेन कमलं किरणैरिव स्वैः ॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा न्यत्यन्तं च गभीरभूरिसुपदान्युनिद्रितार्याणि च xx"-द्वा० कु० वि. P. निमज्जजन्तुजातोद्धरणाय गुणः संवेगरससारद्वादशकुलकादिरूपा रज्जुर्येन दत्ता।' -गणधरसार्धशतकवृत्तौ सुमतिगणिः H. २ "एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणे. ___ भव्यप्राणिविवोधने रसिकतां वीक्ष्याद्भुतां शाश्वतीम् । आदेशाद् गुणविनवाङ्ग विवृतिप्रस्तावकस्यादरात् प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रप्रभुः॥-द्वा० कु. वि० P. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180