Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
४२
[अप्रसिद्ध
[वृ. सं. १५१२] पुष्पमालावृत्तिः । साधुसोमः पृ. ५८ उपदेशमालेल्यपराह्वयं मूलमात्रा मलधारिहेमचन्द्रसूरिविनिर्मिता गूर्जरानुवादसहिता मुद्रिता। क्र.३०१(१) इत्यत्र मूलमात्रा दर्शिताऽपि पत्रसङ्घयाया आधिक्येन सवृत्तिकाऽनुमीयते । अस्याश्व चतुर्दशसहस्रश्लोकप्रमाणा वृहद्वृत्तिः स्वयमेव मूलग्रन्थका सं. ११७५ वर्षे विहिताऽस्त्येव । संक्षिप्ताया अस्यास्तु वृत्तेर्विरचयिता साधुसोमः खरतरगच्छीयजिनभद्रसूरि (पृ.११) शिष्यसिद्धातरुचे शिष्यः, येन सं. १५१९ वर्षे चरित्रपञ्चकवृत्तिरपि विहिता (पृ. १३)।
धर्मोपदेशः। लक्ष्मी]वल्लभः पृ. ५६ यद्यपि दलालेनास्य कर्तुर्नाम वल्लभ इति १०७ श्लोकप्रमाणं च दर्शितम्, किन्तु खरतरगच्छीयलक्ष्मीकोर्तिशिष्यलक्ष्मीवल्लभगणिरस्य कर्ता ज्ञायते; यस्कृतोत्तराध्ययन-कल्पसूत्रवृत्तिः प्रसिद्धा । ॐकारादारभ्याक्षकारमेकादशोत्तरशतकाव्यपरिमितस्य द्वादशप्रक्रमपरिच्छिन्नस्यास्य स्वोपज्ञा पञ्चदशशतश्लोकदेशीया सं. १७४५ वर्षे विरचिता वृत्तिरत्र H. वर्तते । सप्तदशशताब्युत्तरार्धे विद्यमानो ज्ञानविमलपाठकशिष्यो वल्लभोपाध्यायोऽसाद मिशः । [सं. १८४७] सूक्तरत्नावलीवृत्तिः । क्षमाकल्याणः पृ. ६० [A. ९।८३]
आधुनिकोऽयं विद्वान् , अनेन सं. १८३० वर्षे खरतरगच्छपट्टावली, सं. १८३३ वर्षे भारमप्रबोधः (संशोधनम्), सं. १८३५ वर्षे चातुर्मासिक-होलिकाव्याख्यानम् , सं. १८३८ वर्षे साधु-श्रावकविधिप्रकाशः, सं. १८३९ वर्षे यशोधरचरितम् , सं. १८५० वर्षे जीवविचारवृत्तिः, सं. १८२९-५२ वर्षे गौतमीयकाच्यव्याख्या, सं. १८५४ वर्षे तर्कसङ्ग्रहफकिका, सं. १८६० वर्षे मेहत्रयोदश्यक्षयतृतीया-ऽष्टाहिकाम्याख्यानम् , सं. १८६९ वर्षे श्रीपालचरित्रव्याख्या, चतुर्विश. तिजिनचैत्यवन्दन-परसमयसारविचारसङ्ग्रह-विचारशतकबीजक-समरादित्यचरित-स्वाध्यायादयखानेके संस्कृत-गूर्जरग्रन्था निर्मिताः।
जैनधर्मकथा-चरितानुयोगः। वसुदेवहिण्डी (प्रथमखण्डः)। [ सक्छदासवाचकः] पृ. ५३,५६.
[P. P. १।४।३।१८४,१९६] प्राकृतभाषायामेताइन् विस्तृतं वसुदेवचरित्रं नान्यद् विलोक्यते । कथावस्तुसंक्षेपः 'त्रि.श.पु. पर्व ८। सर्ग ३-४' इत्यादौ द्रष्टव्यः । येन महत्पञ्चकल्पमाध्यं विरचितम् , स एव सझदासक्षमा. श्रमणोऽस्याः कर्ता ज्ञायते । विरहातहरिभद्रसूरितोऽप्यस्य प्राचीनतैतदीयग्रन्थदर्शनादवगम्यते ।
__ कुवलयमाला । दाक्षिण्यचिह्नसूरिः क्र. २२९ [शकसं. ७००=वि. सं. ८३५ ] ले. सं. ११३९ । सकलकथा-खण्डकथोल्लापकथा-परिहासकथा-वरकथासम्झकानां पञ्चानां कथानां लक्षण
१ वर्षेऽर्कबाणचन्द्रे वृत्तिः श्रीक्षीमराजशालायाम् ।
द्वीन्द्रियशतमितिरेषा समर्थिताऽहम्मदावादे ॥ M. २ संवत्पांडव-पाठक-मुनि-भूमिमिते च माधवे मासि ।
शुक्लायां तृतीयायां संपूर्णा वृत्तिरेषाऽभूत् ॥ H. ३ 'वसुदेवहिण्डिप्रथमखण्डं सद्धदासवाचककृतम् ११०००'--. ४ सगकाले वोलीणे वरिसाण सएहिं सत्तहिं गएहिं ।
एगदिणेणूणेहिं एस समत्ता वरण्हम्मि ॥-कु. प्रान्ते 'कुवलयमाला प्रा० मु० ८३५ वर्षे उद्योतनसूरीया १३०००-वृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180