Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 60
________________ जैनेतरकथा, व्याकरणग्रन्थाः] ५५ सं. [१६१]६२ शीलवतीकथा । आज्ञासुन्दरः पृ. ५५ एतत्कथाकर्ता रुद्रपल्लीयगच्छीयः सप्तदशशताब्यां सम्भाव्यते । कथावस्तु शीलतरङ्गिण्या (पृ. ४१३-४३४) विलोकनीयम् । [सं. १८६९] श्रीपालचरित्रव्याख्या । क्षमाकल्याणः पृ. ५६ [ A. ९८४] भस्या मूलं सवृत्तिकक्षेत्रसमास-गुणस्थानक्रमारोह-गुरुगुणषट्त्रिंशत् षट्त्रिंशिकादिविधात्रा बृहद्गच्छीयवज्रसेनसूरिपट्टधरहेमतिलकसूरिशिष्येण रनशेखरसूरिणा सङ्कलितम् , सं. १४२८ वर्षे तच्छिष्यहेमचन्द्रसाधुना च लिखितमासीत् । उनविंशतिशताब्द्यां विद्यमानोऽयं व्याख्याकार इति सूचितमस्यान्यग्रन्थ-सूक्तरनावलीपरिचये। जैनेतरकथा। . ले. सं. १२६५ लीलावतीकथा (प्रा०) । भूषणभट्टतनयः क्र. २३७ कर्तुर्नाम नोपलभ्यते । कथाकारस्य पितामहो बहुलादित्यः । एतत्कथारनं विद्वद्भिरज्ञात. पूर्वमेव ज्ञास्यते । एकं जेसलमेरुनगरेऽपरं च पत्तने एवमस्य प्राचीनमादर्शद्वयमेव भारतवर्षे विद्यते इति प्रतिभात्यमाकम् । कविना कथावस्तु त्वतिमनोहरया वाण्या दुःखिनामुद्धारकत्वेन कवीनामांश्रयदातृत्वेन, गाथासप्तशतीप्रणेतृत्वेन च सुप्रसिद्धस्य प्रतिष्ठानपुरविभूषणस्य सालाहण(सातवाहन)नृपस्य सिंहलद्वीपराजपुत्रीलीलावतीसंयोगमनुसृत्य निबद्धम् । लघीयस्यपि सुललितैषा प्राकृता कथा बाणभहस्य कादम्बर्यै स्पर्द्धते । हैमकाव्यानुशासने 'धीरशान्तनायका गयेन पद्येन वा सर्वभाषा कथा' इत्येतत्सूत्रव्याख्यायां 'काचित् पद्यमयी यथा लीलावती' इत्युदाहरणेनेयं मर्यते वा जिनेश्वरसूरिरचिताऽन्या लीलावती कथा इति स्पष्टं नावबुध्यते तथाप्यस्या निर्माण द्वादशशताब्यामथवा ततोऽपि पूर्व सम्भावयितुं शक्यते। शृङ्गारमखरी । भोजः क्र. ३२५(१) कथासङ्ग्रहमयीयं सुरसा कथा संस्कृतभाषायां संस्कृतभाषाजीवातुना सरस्वतीकण्ठाभरणादिप्रणेना महाराजभोजदेवेन विरचितेति तदन्तर्गतैकपत्रे उल्लेखदर्शनादवगम्यते । व्याकरणप्रन्थाः। सं. १०८० पञ्चग्रन्थी (बुद्धिसागरव्याकरणम्) । बुद्धिसागराचार्यः क्र. १७६ अस्य रचना जावालिपुरे इत्याथेतप्रान्ते दर्शितमेव । एतव्याकरणनिर्माणस्य समसमयस्थानयोः (सं.१०८० वर्षे, जावालिपुरे) अष्टकवृत्यादिविरचयित्राऽस्य सहोदरेण जिनेश्वरसूरिणा दुर्जनवाक्यान्येतव्याकरणनिर्माणे हेतुभूतानि दर्शितानि । पञ्चग्रन्थी इत्यस्यापरा संज्ञा ज्ञायते । १ 'लीलावतीकथा भूषणभट्टसुतकृताऽऽद्यरसमिश्रिता च परसमयगता गाथाः १४३९'-६० २ "हियए चिय विलीयंति सुइरपरिचिन्तिया वि सुकईण । जेण विणा दुहियाण च मणोरहा कव्वविणिवेसा ॥"-लीलावती। ३ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां देवदत्ताकथानिका पञ्चमी । अन्यच पुत्रि! महासत्त्वं महासाहसिकत्वं च सम्यगुपलभ्य आत्मत्यागेनाप्यर्थ साधयतां न दुरापाः खार्थसिद्धय इति यत्पूर्वमुक्तं तदपि ते कथयामि । अस्त्यत्र भुज(भूतलप्रसिद्धमतिविभववणिग्व्यवहकवच्च(१)प्रभृतिभिर्महा[ज नैरधिष्ठितमहिच्छत्रं नाम नगरम् । एकत्र पत्रे । ४ "तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह । तत्र दुर्जनवाक्यानि प्रवृत्तेः सन्निबन्धनम् ॥ कीदृशानि दुर्जनवाक्यानीत्याहशब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः ॥ तथा च किं जातमित्याहश्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म धृद्धिमायातु साम्प्रतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180