Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
जैनधर्मकथा-चरितानुयोगः] ५३ देवेन्द्र-धर्मकुमार-प्रभाचन्द्र-बालचन्द्र-मानतुज-मुनिदेव-रसप्रभ-विनयचन्द्रादीनां कवीनां नैककाव्यानि विशदीकृतानि, सं. १३२४-३८ वर्षे समरादित्यसंक्षेप-प्रबैज्याविधानवृत्यादीनि नैकग्रन्थरनानि च स्वयं प्रणीतानि । P. P. ११४ इत्यत्रास्य काव्यस्य कर्ता देवसूरिनिर्दिष्टः, तमुल्लेख दृष्ट्वाभ्रान्त्याऽन्यैरपि तथैवान्यत्र दर्शितम् , किन्तु न तत् समीचीनम् ; नात्र मुनिपदं विशेषणरूपम्, एतद्वन्थकृतोऽन्यकृती तथाऽन्यैरपि तत्समकालीनपाश्चात्य विद्वद्भिरस्य 'मुनिदेव' इत्येव नाम प्रादर्शि। एतदद्भुतं काव्यं दृष्ट्वा सं. १४१० वर्षे मुनिभद्रसूरिणा नूतनं शान्तिचरितकाव्यं रचितम् । प्रन्थकारोऽयं वादिदेवसूरिसन्तानीयमदनचन्द्रसूरिशिष्यः । अनेन धर्मोपदेशमालावृत्यादयो नैके प्रन्था विरचयाञ्चक्रिरे । प्रधुम्नसूरिकृतायाः प्रव्रज्याविधानवृत्तेः प्रथमा प्रतिरनेनालेखेिं ।
सं. १३३४ पुण्यसारकथानकम् । विवेकसमुद्रगणी पृ. ५६ अल्पीयान् दानविषयकोऽयं कथाग्रन्थः । कथाकारोऽयं जिनपतिसूरिपट्टधरजिनेश्वरसूरेः शिष्यः । सं. १३८३ वर्षे रचितायां चैत्यवन्दनकुलकवृत्तौ जिनकुशलसूरिरिमं स्वविद्यागुरुत्वेन वर्णयति स्म । जैनग्रन्थावल्यामस्य तपागच्छीयसोमसुन्दरसूरिशिष्यता षोडशशताब्दीप्रारम्भे च सूचिता सत्ता विचारासहा प्रतिभाति । जिनप्रबोधसूरिणेयं कथा विशोधितेत्यन्न प्रोक्तम् । सं. १३२८ वर्षे येन कातनवृत्तिदुर्गपदप्रबोधो विनिर्मितः, पूर्व प्रबोधमूर्तिनामा स एव जिनप्रबोधसूरिरत्राभिज्ञायते । अन्यत्र ही. H. सू. सम्यक्त्वालङ्कारग्रन्थस्य कर्तृत्वेनास्य नाम निरदेशि ।
त्रिषष्टिशलाकापुरुषचरित्रम् (गद्यम्) क्र. १७४ एतत् केन कृतमिति स्पष्टं न ज्ञायते । शान्तिनाथचरित्रावधि खण्डरूपमेतत् । सुप्रसिद्धहेमसूरिकृतपत्रिषष्टिचरितमनुसृत्यास्य निर्माणमित्येतत्प्रारम्भश्लोकविलोकनेन स्पष्टं व्यज्यतेऽतो ग्रन्थकर्तुरस्य समयस्तदनन्तरमिति स्फुटम् । 'कर्पूरप्रकर'नाना सुप्रसिद्धायाः सूक्तावल्याः कर्ता हरिकवीश्वरः स्वग्रन्थप्रान्ते निजगुरुं वज्रसेनसूरि 'त्रिषष्टिसारप्रबन्धकर्तृरवेन स्मरति स । अयं वज्रसेनसूरिनागपुरीयतपागच्छीयश्चर्तुदशशताब्धामासीदिति पट्टावल्या समुपलब्धशिलालेखादिना च ज्ञायते । वज्रसेनरिकृतमेतदथवाऽन्यकर्तृकमिति न निश्चीयते ।
१ 'श्रीशान्तिवृत्तचैत्यस्थपतिर्धर्मोपदेशमालायाः।
एतां रचयति विवृतिं श्रीमान् मुनिदेवमुनिदेवः ॥"-धर्मोपदेशमालावृ० मुनिदेवसूरिः । २ 'पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वर
प्रख्याताद्भुतकाव्यदर्शनतया काव्यं मयेदं कृतम्'-शान्ति० मुनिभद्रसूरिः । ३ "श्रीदेवानन्दविष्यश्रीकनकप्रभशिष्यकः ।
समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥ वादीन्द्रदेवसूरेवंशे श्रीमदनचन्द्रगुरुशिष्यः।
प्रथमादर्शेऽदर्शयदेतां मुनिदेवमुनिदेवः ॥"-प्रवज्याविधानवृत्तिः । ४ "सन्मौक्तिकस्तबकसेव्यपदोऽनुवेलमस्ताघसंवरधरः कुपथप्रमाथी । विद्यागुरुर्मम विवेकसमुद्रनामोपाध्याय इद्धतररत्ननिधिर्बभूव ॥"
-चैत्यवन्दनकुलकवृत्तिप्र. ५ "श्रीवज्रसेनस्य गुरोस्त्रिषष्टिसारप्रबन्धस्फुटसद्गुणस्य ।
शिष्येण चके हरिणेयमिष्टा सूक्तावली नेमिचरित्रका ॥”-कर्पूरप्रकरप्र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180