Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 53
________________ [अप्रसिद्ध० ले. सं. १२४६ जिनदत्ताख्यानम् । सुमतिगणिः क्र. १३८(२) 'जिनदत्तकथा १२००' इति बृ० निर्दिष्टा कथाऽस्माचरितात् पृथक् प्रतिभासते। P. P. ५।६२,१०८ इत्यत्र निर्दिष्टमेतनामक चरितमप्यस्मादू भिन्नं प्रतिभाति । ग्रन्थकारोऽयं पाडिच्छयगच्छीयनेमिचन्द्रसूरेः शिष्यः । अयं नेमिचन्द्रसूरिः सर्वदेवसूरिणोत्तमपदे (सूरिपदे) स्थापित भासीदिति वर्णितं वर्णनीयेन वर्णिनाऽनेन गणिना । प्रा० जिनदत्तमहर्षिचरितं नान्यत्र दृश्यते। सं. ११७८, ले. सं. १२१७ चन्द्रप्रभचरित्रम् । यशोदेव उपाध्यायः क्र. २५६ विजयसिंहसूरिसस्कमेतत् प्राचीनपुस्तकम् । अयं ग्रन्थकारो देवगुप्तसूरेः शिष्योऽस्य 'धनदेव' इति पूर्वनाम, उपाध्यायपदे प्राप्ते च यशोदेव इति नाम जातमासीत् । उपाध्यायपदानन्तरं घाशावल्लीपुर्या धवलभाण्डशालिककारिते पार्श्वजिनभवने एतच्चरितं प्रारम्याणहिल्लवाडपत्तने वीरजिनमन्दिरे सिद्धराजजयसिंहराज्ये पूर्णीकृतमित्यत्र स्वयं ग्रन्थकारेण वर्णितं विलोक्यतेऽन्य। त्रापि च यशोदेवकृतित्वेनेदं सूचितम् , तथापि S. २१२८ ही. इत्यत्र च सं. ११९२ वर्षे बृहरक्षे. समासवृत्तिकर्तगुरोर्गुरुः सिद्धसूरिरस्य कर्ता सम्भावितः, रचना चास्य सं. ११३८ वर्षे सूचिता तत्तु सुसमीक्षणाभावादिति तर्कये। सिद्धसूरेस्स्वयं सतीर्यो विद्यागुरुरपि । अनेनोपाध्यायेन सं. १९६५ वर्षे नवपदप्रकरणबृहद्वृत्तिः, सं. ११७४ वर्षे च नवतत्वप्रकरणवृत्तिरपि विनिर्मिता । सं. ११८७ नर्मदासुन्दरीकथा । महेन्द्रसूरिः पृ. ५४ [६०] सूरिणेयं प्राकृतकथा स्वशिष्याभ्यर्थनया विरचिता । प्रथमा प्रतिश्च प्रथमाचार्यस्य शिष्येण गणिशीलचन्द्रेण लिखिता । शीलमाहात्म्यमत्र वर्णितम् । कथावस्तु शीलोपदेशमालावृत्यादौ (शीलत० पृ. २९८-३१६) दर्शितं तदेव । सं. १२१६ नेमिनाथचरित्रम् । हरिभद्रसूरिः क्र. २३२ अष्टसहस्रश्लोकपरिमितं प्राकृतापभ्रंशभाषानिबद्धमेतच्चरितं कुमारपालराज्येऽणहिल्लपाटके नगरे वटगच्छीयजिनचन्द्रसूरिशिष्यश्रीचन्द्रसूरिशिष्येण हरिभद्रसूरिणा व्यरचीति स्वयमत्र समसूचि । अयं सूरिवर्योऽन्यत्र स्वस्य चतुर्विशतिजिनचरितरचयितृत्वं प्रतिपादयति स्म । तन्मध्यात् मल्लि. चरितं, चन्द्रप्रभचरित्रं चोपलभ्यतेऽपि तत् तु पत्तनसूचिपत्रे सूचयिष्यते। [सं. १२७६] पार्श्वनाथचरित्रम् । माणिक्यचन्द्रः क्र. ३३ [P. P. ३।१५७] राजगच्छीयसागरेन्दुसूरिशिष्यः प्रौढप्रतिभोऽयं सूरिरिदं भिनमालवंशीयश्रेष्ठिदेहडस्य प्रा. र्थनया प्रणिनाय। १ 'चन्द्रप्रभचरितं प्रा० याशोदेवम् ६४००-६० २ 'गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः'-क्षेत्रस. कृ. सिद्धसूरिः । ३ 'नेमिचरितं प्रा० १२१६ वर्षे हरिभद्राचार्यैः कृतम् ८०३२'-६० ४ "पसरियजसपडहारवनच्चाविय कित्तितरुणिरयणस्स । असरिसगुणमणिनिहिणो पहुणो सिरिचंदसूरिस्स ॥ चउवीसइजिणपुंगवसुचरियरयणाभिरामसिंगारो। एसो. विणेयदेसो जाओ हरिभद्दसूरि त्ति ॥"-प्रा० चन्द्रप्रभचरित्रप्र० ५ 'पार्श्वचरितं सं. माणिक्यचन्द्रसूरिकृतं १२७६ वर्षे ५२७८' -बृ० "रसर्षिरविसङ्ख्यायां समायां दीपपर्वणि । समर्थितमिदं वेलाकूले श्रीदेवकूपके ॥"-P. P. ३१६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180