Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
५१
जैनधर्मकथा-चरितानुयोगः] ध्यायेनाध्यस्याः संस्मरणमकारि । तस्याः प्राकृतकथायास्तु दर्शनं न कुत्रचिद् भवति, तस्साररूपकाव्यदर्शनेनापि सन्तुच्यते । सारकर्ता जिनरत्राचार्योऽप्यतीव विद्वान् प्रतिभाति, सं. १३०७ वर्षे प्राकृतथ्याश्रयवृत्तिविनिर्माता पूर्णकलशगणिरस्य निकटेऽधीतवान् । अग्रे उपलक्ष्यमानलक्ष्मीतिलकोपाध्यायेनाप्यस्य पार्थेऽधीतम् । अनेन जिनरत्नाचार्यसमयस्त्रयोदशशताब्द्युत्तरार्धरूपः स्फुटमवगम्यते । एतद्ग्रन्थरचनाऽपि त्रयोदशशताब्धन्तरूपा विज्ञायते ।
[सं. १३११] प्रत्येकबुद्धचरित्रम् । लक्ष्मीतिलकः क्र. २०३ ___ करकण्ड-द्विमुख-नमि-नग्गतिनाम्नां चतुर्णा प्रत्येकबुद्धमहाराजर्षीणां चरितरूपं जिनलक्षयकं सप्तदशसर्गात्मकमेतत् महाकाव्यं वर्तते । तत्प्रान्तपत्रे 'रुद्राग्नीन्दुशरत्' इति दर्शनादस्य रचना सं. १३११ वर्षे सूच्यते । अयं कविर्जिनपतिसूरिपट्टभूषणजिनेश्वरसूरेः शिष्यः, पूर्णकलशगण्यादीनां च सतीर्थ्यः । सं. १३०७ वर्षे पूर्णकलशगणिकृता प्राकृतयाश्रयवृत्तिरनेन संशोधिता। अभयतिलकोपाध्यायेन न्यायशास्त्राद्यध्ययनमस्यैव विदुषः पार्श्वेऽकारि । सं. १३१२ वर्षे भभयतिलकोपाध्यायकृता सं. द्याश्रयवृत्तिायालङ्काराख्या पञ्चप्रस्थानन्यायतर्कविषमपदव्याख्या
"नासिद्धं न विपक्षगामि च न वा नैकान्तिकं साधनं
येषां सत्प्रतिपक्षकं न विषये सौवेऽपि नो बाधितम् । जात्युद्भावन-निग्रह-च्छलपरव्याघातविश्राणकं
दृष्ट्वा यानपरे श्रयन्ति समितौ धीरा बताज्ञापराः ॥ दत्तो मुदा तैर्जिनरत्नसूरिक्षमाधिपैर्बोधमणिप्रदीपः ।
श्रीप्राकृतद्याश्रयगेहगर्भस्थितं य आदर्शयदर्थजातम् ॥"-प्रा. द्या. वृत्तिप्र० २ "तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः
श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैझलत् ।"-न्यायालङ्कारटीका ३ 'सूरिजिनरत्न इह बुद्धिसागरसुधीरमरकीर्तिः कविः पूर्णकलशो बुधः । ज्ञौ प्रबोधेन्दुगणि-लक्ष्मितिलकौ प्रमोदादिमूर्त्यादयो यद्विनेयोत्तमाः ॥'
-सं० द्याश्रयवृत्तिप्र० ४ "साहित्य-तांगम-शब्दविद्याशाणानिशातीकृतबुद्धिधारः।
चिच्छेद लक्ष्मीतिलको गणिर्मे सब्रह्मचारी स्खलितोक्तिवल्लीः ॥"-प्राकृतद्याश्रयवृत्तिप्र० ५ 'चिन्तारत्नमथाप्य लक्ष्मीतिलकोपाध्यायगीःवर्गवीम् ।' 'श्रीलक्ष्मीतिलको मुदेऽस्तु भगवान् श्रीन्यायतूर्याग्रिमा
ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःस्नेहभराक्षपो न च मनाकम्पोऽपि दुर्वादिवाग्
वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥-न्याया० (पृ. ४७) ६ "आनाती सर्व विद्याखविकलकविताकेलिकेलीनिवासः
कीर्त्याऽन्धेः पारदृश्वा त्रिभुवनजनतोपक्रियाखात्तदीक्षः । .निःशेषग्रन्थसाथै मम गुरुरिह तु द्याश्रयेऽतिप्रकामं टीकामेतां स लक्ष्मीतिलककविरविः शोधयामास सम्यक ॥"
-द्याश्रयवृत्तिप्र. अभयतिलकगणिः । ७ प्राक् संहत्य सुरासुरेण जलधिं व्यालोब्य हेमाद्रिणो
द्भूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180