Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 34
________________ बौद्धन्यायग्रन्थाः] २९ सं. १६६५ उत्सूत्रोद्धटनखण्डनम् । गुणविनयः पृ. ५८ तपागच्छीयधर्मसागरोपाध्याय विहितस्योत्सूत्रोद्धटनकुलक त्यतत् खण्डनं तपागच्छखण्डनरूपं खरतरगच्छमण्डनरूपम् । खण्डनकारोऽयं गुणविनयपाठकः खरतरगच्छीयजयसोमोपाध्यायस्य शिष्यः सप्तदशशताब्दीमध्यकालीनः । अस्य कृतिबाहुल्यं विज्ञायते यथा सं. १६४१ खण्डप्रशस्तिकाव्यवृत्तिः (सं. १६५७ विचाररत्नसङ्ग्रहलेखनम् ) सं. १६४६ रघुवंशटोका सं. १६५९ लघुशान्तिटीका सं. १६४६ दमयन्तीचम्पूवृत्तिः सं. १६६२ अञ्जनासुन्दरीसम्बन्ध (गू.) सं. १६४७ प्रा० वैराग्यशतकवृत्तिः सं. १६६४ इन्द्रियपराजयशतकवृत्तिः सं. १६५१ सम्बोधसप्ततिकावृत्तिः सं. १६६५ गुणसुन्दरीचतुष्पदिका (गू.) सं. १६५५ कर्मचन्द्रमन्निवंशप्रबन्धः (गू.) एतदतिरिक्ता अज्ञातरचनासमयाश्चैते ग्रन्थाःजिनवल्लभीयाजितशान्तिवृत्तिः, मितभाषिणीवृत्तिः, लुम्पकमत नमोदिनकरचतुष्पादिका (गू.) सम्वत्थशब्दार्थसमुच्चय इत्यादयः। सं. १६७५ वर्षे विमलाचले जिनराजसूरिकृतायामादिनाथप्रतिष्ठायामयमपि तत्रासीत् (एपिग्राफिआ इण्डिका २।६२-६३)। [सं. १७३१] पाण्डित्यदर्पणम् । उदयचन्द्रः पृ. ५६ अनूपसिंहसंज्ञकस्य मरुदेशीयनृपस्याज्ञयाऽस्य रचना । अत्र मनजीकादीनां पण्डिताना मतमवमतम् , निजाभीष्टप्रयोगाश्च प्रमाणपुरस्सरं समर्थिताः । बौद्धन्यायग्रन्थाः। ले. सं. १२०६ धर्मोत्तरटिप्पनम् । मल्लवादी क्र. १४,१३०(१) [P.P.५।३] बौद्धाचार्यधर्मोत्तरकृतायाः सुप्रसिद्धाया न्यायबिन्दुटीकाया एतटिप्पनम् । टिपनकारो मल्लवाद्याचार्यों जैनो नयचक्र-सम्मतितर्कवृत्त्यादिकर्ता ज्ञायते; यस्य चरित्रं प्रभावकचरित्रप्रबन्धचिन्तामणि-सम्यक्त्वसप्ततिवृत्ति-प्रबन्धकोषादौ दृष्टिगोचरं भवति । विरहाङ्कहरिभद्रसूरिणाऽस्यास्मारि स्वग्रन्थे । कुमारपालप्रतिबोधक हेमसूरिरपि सिद्धहेमशब्दानुशासने तार्किकशिरोमणिरवेनोदाहरदेनं सूत्रोदाहृतिप्रसङ्गे । प्रभावकचरित्रकारेगास्य समयो वीरनि. सं. ८८४=वि. सं. ४१४ रूपो न्यरूपि, किन्तु न्यायबिन्दुटीकाकारस्य धर्मोत्तरस्य सत्ता पाश्चात्य. विनिर्विक्रमीयसप्तमशताब्या निर्णीयतेऽतो टिप्पनकारस्यार्वाचीनतेति स्पष्टमथवाऽयं मल्लवादी कश्चिदन्यः सम्भाव्यः । अपूर्णा मुदिता च न्यायबिन्दुटीका-टिप्पण्यस्मादू भिन्नाभिन्ना वेति तन्नत्यप्रतिसमीक्षणं विना निर्गतुं दुःशकम् ।। यदपि पितुः प्रबोधविधये इत्यादि तत्रायं पुण्यात्मा विधिचैत्यादि विचारसारक्षोदकोविदशिरःशेखरः सा० क्षेमन्धरः सकलपवित्रगोत्रपरिवारेण सह प्रभुश्रीजिनदत्तसूरियुगप्रधानप्रकाशितविधिमार्गप्रतिबोधबन्धुर एवेति स्वकृतप्रकृतवादस्थानकमसिद्धसाध्यवान सम्यक साधनमिति भवता स्वयमेव सूचितं, सम्यक साधनं हि खसाध्यं साधयत्येवेति ॥"-प्रबोधोदयोपान्त्ये H. १ चन्द्राग्नि-मुनि-भूसंख्ये वत्सरे सुदि चाश्विने । चन्द्रेणोदयपूर्वेण दशम्यां विशदीकृतः ॥ C. २ 'अनुमल्लवादिनं तार्किकाः'-हैम० २।२।३९ ३ "श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तन्यन्तरांश्चापि ॥"-प्रभा० पृ. ७४. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180