Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 140
________________ परिशिष्टम् । (2) शान्तिजिनालयस्य प्रशस्तिः । ॥ जगदभिमतफलवितरण विधिना निरवधिगुणेन यशसा च । यः पूरितविश्वाशः स कोपि भगवान् जिनो जयति ॥ १ तथा ॥ मनोभीष्टार्थसिद्ध्यर्थं कृतनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येहं प्रतिष्ठादिमहः कृतां ॥ २ ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ । श्रीजादेवः पुनरासदेवस्तज्जाष देवोद्भवझांबटोभूत् ॥ ३ विश्वत्रयी विश्रुतनामधेयस्तदंगजो धांधलनामधेयः । ततोपि च द्वौ तनयावभूतां गजूस्तथान्यः किल भीमसिंहः ॥ ४ सुतौ गजूजौ गणदेवमोषदेवौ च तत्र प्रथमस्य जाताः । मेघस्तथा जेसलमोहणी च वेरितीमे तनया नयाढ्याः ॥ ५ तन्मध्ये जेशलस्यासन् विशिष्टाः सूनवस्त्रयः । आंबः प्राच्योपरो जींदो मूलराजस्तृतीयकः ॥ ६ तत्र श्रीजिनोदयसूरिश्वरादेशसलिलेश केशवः संवत् १४२५ वर्षे श्रीदेवराजपुरकृतसविस्तर • तीर्थयात्रोत्सवस्तथा संवत् १४२७ वर्षे श्रीजिनोदयसू रिसंसूत्रित प्रतिष्ठोत्सवांभोदोदकपल्लवितकमनीयकीर्तिवलीवलयः सं. १४३६ वर्षे श्रीजिनराजसूरिसदुपदेश मकरंदमापीय संजात संघपतिपदवीको राजहंस इव सं. आंबाकः श्रीशत्रुंजयोज्ज यंताचलादितीर्थमानसरो यात्रां चक्रवान् । तथा मोहणस्य पुनः पुत्राः कीहटः पासदत्तकः । देल्हो धन्नश्च चत्वारश्चतुर्वर्गा इवांगिनः ॥ १ शिवराजो महीराजो जातावाद्यसुतावुभौ । मूलराजभवश्वास्ति सहस्रराजनामकः ॥ २ तथा तत्र श्रीजिनराज सूरि सदाज्ञासरसीहंसेन संवत् १४४९ वर्षे श्रीशत्रुंजयगिरिनारतीर्थयात्रा निरमापि सं० कीहटेनेति । धामा कान्हा जगन्मला इत्येते कीहटांगजाः । वीरदत्तश्च विमलदत्तकर्मणहेमकाः ॥ १ ठाकुरसिंह इत्येते पासदत्तसुता मताः ॥ २ देल्हौ साधुजीवंदकुंपौ धनांगजाः पुनः । जगपालस्तथा नाथूरमरश्चेति विश्रुताः ॥ ३ भीमसिंहस्य पुत्रोभूल्लाषणस्तस्य मम्मणः : जयसिंहो नरसिंहो माम्मणी श्रेष्ठिनावुभौ ॥ ४ तत्र स्तो जयसिंहस्य रूपाधिल्हाभिधौ सुतौ । नारसिंही पुनर्भोजो हरिराजश्च राजतः ॥ ५ इत्थं पुरुषनौघाकुलं श्रेष्ठिकुलं कलौ । जयत्यधर्मविच्छेदि निःकलंकमदः कलं ॥ ६ Jain Education International 65 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180