Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 59
________________ [अप्रसिद्ध० ले. सं. १३८० ऋषिमण्डलवृत्तिः क्र. १२६ 'महरिसिकुलक' इत्यपरनामकं मूलमात्रमेतद् धर्मघोषसूरिकृतं P. P. १९३, ३।२४ इत्यत्र दर्शितम् , तदेव । गुर्वावल्यां (पृ. १७-२१) वर्णितः सं. १३५७ वर्षे स्वर्गामी सङ्घाचारवृत्यादिविधाताऽयं सूरिन प्रतिभाति, किन्तु सिद्धराजसमकालीनोऽन्यो वा (पृ.१०) सम्भाव्यते । वृत्तयोऽस्य ग्रन्थस्य बढ्यो वर्तन्ते, किन्तु तासु प्राचीनाऽञ्चलगच्छीयभुवनतुङ्गसूरिकृता, या बृह. हिपनिकायां दर्शिता, भुवनतुङ्गसूरेविद्यमानता चतुर्दशशताब्यामासीदित्यञ्चलगच्छपट्टावल्यादितो ज्ञायतेऽत इयं वृत्तिस्तस्कृतैव सम्भाव्यते, येनातुरप्रत्याख्यान-चतुःशरणवृत्त्याद्यपि निर्मितम् । मूले दर्शितानां जैनमहर्षीणां चरित्राणि वृत्तौ प्रदर्शितानि ॥ सं. १४०६ अक्षणासुन्दरीचरियम् । गुणसमृद्धिमहत्तरा पृ. ४९ चरितस्यास्य रचना जेसलमेरपुरे । ग्रन्थकी चेयं खरतरगच्छीय जिनचन्द्रसूरिशिष्यः । सम्भ्र. मात् ही. सूच्यां सं. १४७७ वर्षेऽस्या रचना सूचिता । अयं जिनचन्द्रसूरिः जिनलब्धिसूरिशिष्यः; जिनोदयसूरेः, सं. १४११ वर्षे कातन्त्रवृत्तिपञ्जिकालेखयितुः सोमकीर्तेश्च गुरुः सं. १४१५ वर्षे स्वर्गभाग जायते । चरितवस्तुज्ञानार्थ शीलोपदेशमालावृत्तौ (पृ. २८१-२९८) द्रष्टव्यम् । सं. १५०३ पृथ्वीचन्द्रचरित्रम् । जयसागरगणिः एकादशप्रस्तावविभूषितस्यास्य चरित्रस्य रचना प्रादनपुरे समजायत । चरित्रकारस्थास्य जिनराजसूरिक्षागुरुः, जिनवर्धनसूरिर्विद्यागुरुः, जिनभन्दसूरिश्वोपाध्यायपदप्रदाताऽऽसीत् (पृ. ५७)। सत्यरुचिनाम्नः शिष्यस्याभ्यर्थनया रचितेऽमिश्चरित्रे गणिरतचन्द्रः सहायकोऽमवत् । सत्यरुचि-रेनचन्द्रावस्य शिष्यावास्तामिति दर्शितमेतस्कृतायां विज्ञप्तित्रिवेण्याम् (पृ. १७, २१,५५) । सं. १४७३ वर्षे जेसलमेरौ पार्श्वजिनालयप्रशस्तिरनेन गणिना शोधिता (पृ. ६४), शान्तिजिनालयस्य प्रशस्तिश्च विरचिता (पृ. ६६) । सं. १४९७ वर्षे जे० सम्भवजिनालयस्य प्रशस्तिकर्ता वा० सोमकुञ्जरोऽस्य शिष्यः (पृ. ६९); एतदतिरिक्ता मेघराज-स्थिरसंयमादयो नैके शिष्टशिष्या अस्याभवन् । सं. १४७८ वर्षे पर्वरत्नावलीकथा, सं. १४८४ वर्षे विज्ञप्तित्रिवेणिः, तीर्थराजीस्तवनम् , सं. १४८७ वर्षे चैत्यपरिपाटिः, उपसर्गहरस्तोत्रवृत्तिः, जिनदत्तसूरीयगुरुपारतथ्यादिस्तववृत्तिः, भावारिवारणवृत्तिः, सं. १४९५ वर्षे सन्देहदोलावलीलघुवृत्तिः इत्यादिकाऽस्य विदुषः कृतिः समुपलभ्यतेऽनेनास्य पञ्चदशशताब्युत्तरार्धे पोडशशताब्दीप्रारम्भे च विद्यमानता परिस्फुरती प्रौढविद्वत्ता च सम्यग् ज्ञायते । आशापल्लीकोशार्थ सं. १४९५-९७ वर्षेऽनेन लेखितं व्यवहारचूादिपुस्तकमुपलभ्यते । जिनभद्रसूरेग्रन्थसङ्ग्रहालये चानेनापि ग्रन्थलेखनादिना सुसहायताऽकारि। सं. १६२४ परमहंससम्बोधचरितम् । नयरङ्गः पृ. ५७ [A. S. ८११२] भष्टप्रस्तावोपेतस्यास्य चरितस्य विरचयिता नयरङ्गो खरतरगच्छीयजिनभन्दसूरिसन्तानीयवा० गुणशेखरस्य शिष्यः । रचनास्थलं बालपताकापुरीति निर्दिष्टमेवान । कथावस्तु स्वत्र जयशेखरसूरिरचितस्य प्रबोधचिन्तामणिग्रन्थस्य प्रतिभाति । १ "भत्तिभर इति ऋषिमण्डलसूत्रम् २०८ । अस्य वृत्तिराञ्चलिकभुवनतुङ्गीया।"-६० २ एतस्य पठनार्थ सं. १५०१ वर्षे जयसागरोपाध्याय लिखितः क्रियारत्नसमुच्चयः अस्योपदेशेन च सं. १५२१ वर्षे लेखितः सिद्धहैमलक्षणबृहद्वृत्तिकक्षापटग्रन्थः पत्तनभाण्डागारे विद्यते । ३ एतत्कृतानि जिनभद्रसूरिस्तुतिपराणि नैकानि चित्रकाव्यानि विज्ञप्तित्रिवेण्यां (पृ. ६१-६३) दर्शितानि । सं. १४९५ वर्षेऽनेन स्वगुरुकृतायाः सन्देहदोलावलीवृत्तेः प्रथमा प्रतिलिखिताऽऽसीत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180