Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
३३
जैनद्रव्यानुयोगः]
वेदान्तग्रन्थौ। इष्टसिद्धिः । विमुक्तात्माचार्यः क्र. १४०(२) इयमपूर्णरूपा प्रथमाध्यायात् किञ्चिदधिकाऽत्र दृश्यते । बर्नलसूचिपत्रे (पृ.९५) सूचितोऽयं प्रन्थः । मधुसूदनेनाद्वैतसिद्धावस्य नाम गृहीतम् , आनन्दज्ञानेन चास्य वाक्यानि स्वतर्कसङ्ग्रह उद्धृतान्यवलोक्यन्तेऽतोऽस्य प्राचीनतेति स्पष्टम् ।
खण्डनखण्डखाद्यटीका ( शिष्यहितैषिणी) क्र. २२५ [P. P. ५।२९] विद्यासागरीव्याख्योपेतस्य मुद्वितखण्डनखण्डखाद्यस्य प्रस्तावनायां लक्ष्मणशास्त्रिणा शिष्यहितैषिण्याः कर्ता पद्मनाभः सूचितः, किन्त्वस्याः प्रान्त निरीक्षणेऽनुभवस्वरूपो व्यज्यते स चानुभूतिस्वरूपाचार्यः सम्भाव्यते । 'P. P. ५३०' इत्यत्र मुद्रितो 'व्योम्नीवान्वभव. स्वरूप-'इति पाठः सम्यग् न भाति ।
सर्वदर्शनसङ्ग्रहः ।
सर्वसिद्धान्तप्रवेशः क्र. २९३(३) षण्णामपि दर्शनानां स्वरूपप्रतिपादकोऽयं ग्रन्थो जिनेश्वरप्रणामरूपमङ्गालकरणाजैनाचार्यकृत इत्यनुमीयते । त्रयोदशशताब्द्युत्तरार्धलिखितपुस्तिकायामागतस्वादस्य रचना ततः पूर्वमिति स्फुटम् ।
जैनद्रव्यानुयोगः। ले. सं. १२२२ कम्मपयडीसंग्रहणीटीका क्र. २७७ इयं सुप्रसिद्धायाः शिवशर्मसूरिरचितायाः कर्मप्रकृतेश्चूर्णिः प्रतिभाति ।
कर्मप्रकृतिचूर्णिविशेषवृत्तिः क्र. १७८ कर्मप्रकृतिप्राभृतसङ्ग्रहणीचूर्णिपदविषयकटिप्पनकरूपेयं रचयितुर्नामविहीनात्र विलोक्यते; तथाप्यन्यत्र मुंनिचन्द्रसूरिकृतं टिप्पनं सूचितं तदेवैतत् सम्भाव्यते । अयं मुनिचन्द्रसूरिरनेकान्तजयपताकावृत्तिटिप्पनादेविधाता सं. ११७८ वर्षे स्वर्गभाग ज्ञायते (पृ. २५)।
शंतकवृत्तिः । मलधारिहेमचन्द्रसूरिः क्र. २८४ [P. P. ४।१३०] २८६ क्रमाङ्के शतकचूर्णिनाम्ना दर्शिताऽपीयमेव वृत्तिः प्रतिभाति । २३२२ श्लोकमिता शतकचूर्णिस्तु साम्प्रतं मुद्रिता । शतकसूत्रकारः शिवशर्मसूरिरत्यन्तप्राचीनः । वृत्तिकारोऽयं द्वादशशताब्युत्तरार्धे सिद्धराजादिसस्कृत भासीदित्यन्यत्र (पृ. ३९) सूचितम् ।
ले. सं. १२११ सि(स)त्तरीटिप्पनम् । रामदेवगणिः क्र. ३१९
१ 'कर्मप्रकृतिचूर्णिटिप्पनकं मुनिचन्द्रीयम् १९२० ।-३० २ 'बृहच्छतकवृत्तिर्मलधारिहेमचन्द्रीया ३७४० ।-वृ० ३ 'सत्तरिटिप्पनकम् खरतररामदेवगणिकृतम् गाथा ५४७ ।'-वृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180