Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 49
________________ ४४ [ अप्रसिद्ध ० शीलाचार्यो 'निर्वृतिकुलीन मानदेवसूरेः शिष्यः । आचाराङ्ग-सूत्रकृताङ्गवृत्तिकारः शीलाचार्योऽस्माद् भिन्नो ज्ञायते । जीवसमासटीकाऽस्य शीलाचार्यस्य कृतिर्वाऽपरस्येति न निश्चित्य वकुं शक्यते । अस्य लेखनं सं. १२२७ वर्षे कुमारपालराज्ये स्पष्टं सूचितमतः ही S. २।२८ इत्यत्र च निर्दिष्टः सं. ११२७ रूपो लेखनसमयो भ्रान्तिभवो ज्ञायते । ले. सं. ११०९ पञ्चमीकहा । महेश्वरसूरिः पृ. ५२ भस्मादेवादर्शात् सं. १६५१ वर्षे लिखिते पतनीयपुस्तके 'सं. १००९ वर्षे' लेखनमस्य प्रादर्शि । ग्रन्थकारस्य प्राचीनताऽतः स्फुटमवगम्यते । समयनिर्णयस्तु दुःशकः । ग्रन्थकारेण स्वपरिचये केवलं सेज्जनोपाध्यायशिष्यत्वं समसूचि । अस्य ग्रन्थस्य पञ्चमीमाहात्म्य वर्णनपरत्वात् 'पंचमी माहं' इत्यपरं सुसम्बद्धं नाम दृश्यते । प्राकृतभाषायां सहस्रद्वयपरिमितासु गाथासु देश कथानकान्यत्र वर्तन्ते । तत्रापि प्रथमा जयसेनकथा पञ्चशतगाथासु, दशमी भविष्यदत्तकथाsपि तावन्मितासु गाथासु । शेषा अष्ट कथाः प्रत्येकं सपादशतगाथाप्रमाणत्वात् सहस्रगाथासु समांशेन विभक्ताः । साम्प्रतं प्रसिद्धा धर्कटवणिग्वंशोद्भवधनपालनिर्मिता अनया संस्थया प्रकाशिताsपभ्रंशा भविस्सयत्तकहा (पंचमीकहा ) भस्या एव प्रान्तकथायाः प्रपञ्चरूपा। पूर्वोक्ताया जयसेनकथाया अस्मत्कृतो गूर्जरानुवादो जैनधर्माभ्युदयग्रन्थमालायां मुद्रितः । P. P. ११६७ इत्यत्र 'महेन्द्रसूरिकृतं भविदत्ताख्यानं' दर्शितं तदप्येतदेव महेश्वरसूरिरचितं भविष्यदत्तकथावसानं पञ्चमीमाहात्म्यं सम्भाव्यते । लेखकस्खलनातः प्रेक्षकस्यापि स्खलना परम्परयाऽन्यत्रावतीर्णा प्रेक्ष्यते । ले. सं. १२२२ शालिभद्रचरित्रम् (प्रा० ) क्र. २४९ (३) [P. P. १ ७३,८६,९५] कर्तुर्नाम नोपलभ्यते । चरित्रवस्तु जिज्ञासा पं० धर्मकुमारकृतात् शालिभद्रचरित्रात् पूरयितुं शक्यते । जम्बूचरित्रम् (प्रा० ) क्र. २२८ चरित्रकारस्य नाम न ज्ञायते । कर्त्रा स्वस्य प्रधुम्न सूरिपट्टधरवीरभद्राचार्यशिष्यत्वं तु स्वयमत्र सूचितम् | 'गुणपालणेच निद्वेण साहुणा पवयणभतेण । सीसेण तस्स रइयं चरियमिमं जंबुना - मस्स ॥' इति प्रान्ते दर्शनाद् 'गुणपाल' इति कर्तुर्नाम ही. निर्दिष्टं सम्भवेत् । चरितवस्तुज्ञानार्थ हेम. परिशिष्टपर्व जयशेखरसूरिकृतं जम्बूचरित्रं वा द्रष्टव्यम् । १ आसि जसुज्जजोहाधवलियनेव्वयकुलंबराभोओ । तुहिणकिरणो व्व सूरी इहई सिरिमाण देवो त्ति ॥ सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ -- महा. H. P. २ दोपक्खुजोयकरो दोसासंगेण वज्जिओ अमओ । सिरिसज्जणउज्झाओ अठव्वचंदु व्व अक्खस्थो || सीसेण तस्स रइया दसवि कहाणाइ [इ] मे उ पंचमिए । सूरिमसरणं भवियाणं बोहणट्ठाए ॥ P. ३ 'पञ्चमीकथा दशकथानकात्मिका प्रा० महेश्वरसूरीया २००४' - नृ० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180