Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
આ પ્રમાણે ક્રમશઃ જ અન્વય કરવાનો છે. એનું કારણ એ છે કે પ્રવચન, સાંપ્રત વિગેરે દરેક શબ્દ ॥ अर्थ ४२ती मते 'वा' नथी सध्या ५९। 'च' सध्या छ. सन या५६ ५४॥ यया छ. भाटे मश: 318। ४२वानुं छे.
லலல तदेवं शिष्यस्य विनयोपदेशो दत्तो गुरूणा चैवंविधेन भाव्यमित्युक्तम्, अधुना साध्वीरधिकृत्य विनयोपदेशः, स च साधूनामद्यदीक्षितानामपि ताभिः कार्य इति।
अत्र कथानकम्
कौशाम्ब्यां नगर्यां शेडुवकनाम्ना नि:स्वेन काकन्दीपुरतो वैराग्यादागतेन राजमार्गावतीर्णा गणनातिक्रान्तसाध्वी श्राविकालोकपरिकरा राजसामन्त श्रेष्ठिपौरजनपदैः पूज्यमानाऽनुगम्यमाना च तथाप्यनुत्सेकवती शमश्रीरिव मूर्तिमती वपुर्वैलक्षण्याऽपहसितामरसुन्दरीसौन्दर्या आर्यचन्दना ददृशे। ततः स सञ्जातकौतुकः कञ्चन वृद्धं पप्रच्छ अथ केयं भगवतीति? स प्राह - एषा चम्पाधिपदधिवाहनराजदुहिता वसुमती स्वगुणोपार्जितचन्दनाभिधाना तृणवदपहाय राज्यसुखं प्रव्रजिता वीरस्य भगवतः प्रथमान्तेवासिनी आचार्यसुस्थितवन्दनार्थमुच्चलितेति। ततो भक्तिकुतूहलाभ्यामाकृष्टचित्तः स साधूपाश्रयं जगाम। चन्दनापि गुरुं वन्दित्वा स्वोपाश्रयमगमत्। दृष्टोऽसौ गुरुणा ज्ञानावलोकेन, लक्षिता धर्मयोग्यता, सम्भाषितो मधुरवचनैः, अस्योचितमिदमिदानीमिति भोजितः परमान्नैः, चिन्तितमनेनाऽहो! करुणापरतैषाम्, उभयलोकहितं जीवितम्, निवेद्य स्वाभिप्रायं प्रपन्नः प्रव्रज्याम्, स्थिरीकरणार्थं सुसाधुसहायः प्रहित: प्रतिश्रयं गुरुणा, तस्मिन् प्रवेश्य बहिः स्थिता: साधवः, अभ्युत्थितः सपरिकरया चन्दनया, दापितमपरिभोगमासनम्, वन्दितः सविनयम्। अत्रान्तरे तस्या उपनीतमार्यिकाभिर्विष्टरम्, नेष्टमेतया विरचितकरमुकुलया चोक्तं-किं भगवतामागमनप्रयोजनमिति? ततोऽसावहो! धर्मप्रभावो यदेवंविधापीयं ममाप्येवं वर्तते! इति सञ्चिन्त्याह-युष्मदुदन्तान्वेषणनिमित्तं गुरुभिः प्रेषितोऽहमिति स्थिरीभूतधर्माभिनिवेशो निर्गतः प्रतिश्रयात् ॥ ११ ॥ तथा चाह
अणुगम्मई भगवई, रायसुयज्जा सहस्सविंदेहिं । तह वि न करेई माणं, परियच्छइ तं तहा नूणं ।। १२ ।। दिणदिक्खियस्स दमगस्स, अभिमुहा अजचंदणा अज्जा ।
नेच्छइ आसणगहणं, सो विणओ सव्वअजाणं ।। १३ ।। अणुगम्मई० गाहा, दिणदिक्खियस्स० गाहा : अनुगम्यते भगवती राजसुता आर्या आर्यचन्दना वृन्दसहस्रः पूजितलोकानामिति गम्यते। वृन्दशब्दस्य परनिपातः प्राकृतत्वात्, तथापि न करोति मानं

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138