Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 83
________________ 'सुषपशुं' थाय. भ्यारे तमे तो खेनो अर्थ 'सुख' खेभ यो छे. ते अर्ध रीते योग्य उडेवाय ? ઉત્તર ઃ અહીં જે ‘વ’ પ્રત્યય છે તે ભાવવાચક નથી પણ સ્વાર્થમાં લાગતો પ્રત્યય છે માટે સુખ બોલો કે સૌખ્ય બોલો, બંનેનો અર્થ એક જ થાય. ७०७०७ तदेतद् बहुशोऽपि कथ्यमानं गुरुकर्मणां मनसि न लगतीत्याह उवएससहस्सेहिं वि, बोहिज्जतो न बुज्झई कोइ । जह बंभदत्तराया, उदाइनिवमारओ चेव ।। ३० ।। उवएससहस्सेहिं वि० गाहा : उपदेशसहस्त्रैरपि बोध्यमानो न बुध्यते कश्चित्, कथमित्याहयथा ब्रह्मदत्तराजा उदायिनृपमारकश्च । एवकारस्य कश्चिदेव न बुध्यते, न तु सर्व इत्यत्र व्यवहितः सम्बन्ध इति समासार्थः, व्यासार्थः कथानकगम्यः । तत्राद्यं तावत्ब्रह्मदत्तश्चक्रवर्ती सञ्जातजातिस्मरणो जन्मान्तरसहोदरसङ्गमार्थं 'यः पश्चार्धं पूरयति तस्मै स्वार्धराज्यं प्रयच्छामी' ति प्रतिज्ञायेदं श्लोकपादद्वयं सदसि न्यगादीत् - 'आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा।' तदाकर्ण्य जनाः पठितुमारेभिरे । अन्यदा स जन्मान्तरसहोदरजीवः पुरिमतालनगरात् इभ्यसुतो भूत्वा गृहीतप्रव्रज्यः सञ्जातजातिस्मरणस्तत्रैवागतः, श्रुत्वा च आरघट्टिकेन पठ्यमानं श्लोकार्थं स प्राह - 'एषा नो षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ १ ॥ ' इतरस्तु तद् गृहीत्वा गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । स्नेहाऽतिरेकेण गतो मूर्छा राजा, चन्दनरससेकादिभिर्लब्धा चेतना । न मया पूरितोऽयमिति विलपन्नसौ मोचितः कदर्थकेभ्यः पृष्टश्च 'कोऽस्य पूरक' इति । स प्राह अरघट्टसमीपवर्ती मुनिः । ततो भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्जगाम राजा, दृष्टो मुनिः, तुष्टश्च चेतसा, वन्दितः सविनयम्, उपविष्टस्तदन्तिके । मुनिनाप्यारब्धा धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसुखातिशयः, ततः संविग्ना परिषत्, न भावितो ब्रह्मदत्तः प्राह च भगवन् ! यथा स्वसङ्गमेनाह्लादिता वयं, तथाह्लादयतु भवान् राज्यस्वीकरणेन, पश्चात्तपः सममेव करिष्यावः, एतदेव वा तपःफलम् । मुनिराह 'युक्तमिदं भवदुपकारोद्यतानां केवलं दुर्लभेयं मानुषावस्था, सततपातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः । दुर्लभं पुनर्मोक्षबीजं, विशेषतो विरतिरलं, तत्त्यागाद् न दुस्तरनरकपातहेतुकतिपयदिनभाविराज्याश्रयणमाह्लादयति चेतो विदुषां तत्परित्यजाऽमुं कदाशयं, स्मर प्राग्भवाऽनुभूतदुःखानि, पिब जिनवचनामृतं सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राह ' भगवन्नुपनतसुखत्यागेनाऽदृष्टसुखवाञ्छाऽज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं' ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुद्ध्यते तदा चिन्तितं मुनिना, 'आ: ! ज्ञातं तदेतत्, यदावां मातङ्गभवे -

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138