Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 117
________________ વિશેષ્ય = કર્તા તથા ક્રિયાપદ સાથે સંબંધ કરવો, તેમાં = સ્વકર્મ વિ. વિશેષણ છે તેમાં કર્મ એટલે જે १२॥यते .. शान।१२४ीया भी देत. स्वकर्म = पोतान भी तनो विनिवेश = तनी रयन। એટલે કે પ્રકૃતિસ્થિતિરસપ્રદેશરૂપે કર્મની રચના. તે રચનાને સદશ = અનુરૂપ કરાઈ છે ચેષ્ટા = દેવાદિ પર્યાયોમાં રહેવારૂપ વ્યાપાર = ક્રિયા જેના વડે તેવો જીવ પરિભ્રમણ કરે છે. આ વાતમાં ગ્રંથકારશ્રી दृष्टान्तने ४९॥छे विविध प्र.७॥२॥ वेष = नेपथ्य (वस्त्र), विवेपन, विछिति = i४न वि. शृंगार विगेरे ३५ वेष छेना मेवा नटनी ठेभ परिभ्रम। ७२ छ.. ।।४४-४५-४६।। லல तदिदं संसारेऽनवस्थितत्वमालोच्य विवेकिनो मोक्षका?कताना एव भवन्ति, न धनादिलिप्सव इति दृष्टान्तेनाह - कोडीसएहिं धणसंचयस्स गुणसुभरियाए कन्नाए। न वि लुद्धो वयररिसी, अलोभया एस साहूणं ॥ ४७ ॥ कोडीसएहिं० गाहा : कोटीशतैः सह या कन्या तस्यामपि न लुब्ध इति सम्बन्धः। कस्य कोटीशतैः? धनसञ्चयस्य रिक्थसङ्घातस्य सम्बन्धिनां रत्नादीनामिति गम्यते। गुणैः रूपादिभिः सुभृता सुष्ठ पूर्णेति समासः। कासौ? कन्या अपरिणीतबाला, तस्यामपि न लुब्धो न लोभं गतः। अपिशब्दस्य व्यवहितः प्रयोगः, कोऽसौ? वैरर्षिः। शिष्यं प्रत्याह- अलोभतैषाऽनन्तरोक्ता साधूनां, सर्वयतिभिरेवं निर्लोभैर्भाव्यमिति सङ्क्षेपार्थः, प्रपञ्चार्थः कथानकाद् ज्ञेयः । ___ तच्चेदं - पाटलिपुत्रे विद्याद्यतिशययुतो युगप्रधानो भगवानाचार्यो वैरर्षिः समवसृतः । तद्वन्दनार्थं निर्गत: सनागरको राजा। भगवताऽपि विद्याबलतो विहितविशोभरूपेण प्रारब्धा धर्मदेशना। ततस्तदाक्षिप्तचित्ता लोकाः परस्परमूचुर्बत भगवतो न गुणानुरूपं रूपम्। उपसंहृता देशना, गतं तद्दिनम्। इतश्च तत्रैव नगरे धनसार्थवाहशालायां पूर्वस्थिता आर्यिका भगवद्गुणवर्णनं कृतवत्यः, तदाकर्ण्य धनदुहिता अतिमुग्धतया भगवति जाताऽनुरागा पितरं प्रत्याह-यदि मां वैरस्वामिनं विहायाऽन्यः परिणेष्यति ततस्त्यक्ष्यामि प्राणान्। ततोऽपत्यस्नेहवशाद्विज्ञाय तन्निर्बन्धं द्वितीये दिने गृहीत्वा अनेकरत्नकोटीशतैः सहितां कृताऽलङ्कारामुपहसितत्रिदशवधूलावण्यां कन्यां गतो भगवत्समीपं सार्थवाहः। दृष्टो भगवान् वैरूप्यदर्शनजातवैमुख्यजनालादातिरेकसम्पत्तये मार्गावतारणार्थं विद्यातिशयान्निर्वर्तितत्रिभुवनातिशायिरूप: कनककमलोपविष्टो धर्ममाचक्षाणस्तेन। ततः सविनयं प्रणम्य विरचितकरकुड्मलोऽसावाह – 'भगवन्! अस्या मम जीविताभ्यधिकायाः कन्यकाया रत्नराशिभिः सहिताया ग्रहणेन कुरू मेऽनुग्रहमिति।' भगवानाह - 'भद्र! न खल्विदमतिमुग्धबुद्धेरपि मनसि सन्तिष्ठते, यदुत सिद्धिवधूसम्बन्धबद्धाध्यवसाया अनिधनसुखाभिलाषिणः साधवोऽशुचिमूत्रान्त्रक्लेदपूर्णासु युवतिषु क्षणविनश्वरे च धने ग्रहणबुद्धिं विधास्यन्ति। ततोऽलमनया निर्विवेकजनोचितया कथया। यद्यस्या मय्यनुरागस्तत: करोतु स्वार्थसाधनेन मच्चित्ताह्लादनमिति।' कन्याह-भगवद्वचनकरणेनापि कृतार्थाऽहम्। ततो मुक्ता जनकेन प्रव्राजिता भगवता। ततोऽयमेव धर्मो यत्रैवंविधप्रभावाणामपीदृशी निर्लोभतेति सञ्चिन्त्य प्रतिबुद्धा भूयांस: सत्त्वा इति ॥ ४७ ।।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138