Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 107
________________ तच्चेदम् श्रावस्त्यां जितशत्रुतनयस्य स्कन्दकस्य भगिनी पुरन्दरयशाः कुम्भकारकटकनगरनिवासिना दण्डकिराजेन परिणीता। अन्यदा कस्मिंश्चित्कार्ये प्रहितो दण्डकिना पालकनामा दूतो जितशत्रुसकाशम्। स च धर्मविचारे नास्तिकमतं प्रतिष्ठापयन्नर्हदागमाऽवदातबुद्धिना निर्जितः स्कन्दककुमारेण जातक्रोधो गतः स्वस्थानम्। स्कन्दकोऽपि जातवैराग्यो मुनिसुव्रतसमीपे पञ्चपुरुषशतपरिकरो निष्क्रान्तः । भगवतापि गृहीतसमयसारः कृतस्तेषां स एवाचार्य: । अन्यदा तेन पृष्टो भगवान् मुनिसुव्रतस्वामी' भगिन्यादिप्रतिबोधनार्थं यामि कुम्भकारकटकमिति । ' भगवानाह 'प्राणान्तिको भवतां तत्रोपसर्गः ', स प्राह- आराधका न वेति ? भगवतोक्तं-भवन्तं मुक्त्वा । ततो यद्येते मत्साहाय्येनाराधयन्ति किं मया न लब्धमित्यभिधाय गतः । तदागमनं चाकर्ण्य पालकेन साधुजनोचितेषूद्यानेषु निधापितानि नानाविधानि शस्त्राणि । प्राप्ते च भगवति निर्गतः सह नागरलोकेन वन्दनार्थं राजा । भगवतापि कृता देशना, आह्लादिता जन्तवः । ततः पालको रहसि राजानं व्यजिज्ञपदस्माभिर्भवद्भ्यो हितं भाषितव्यम् । अयं च पाखण्डिकः स्वाचारभग्नः सहस्रयोधिनो अमून् पुरुषान् सहायीकृत्य भवद्राज्यं जिघृक्षति । राजाह 'कथं जानीषे'? स प्राह कियदेतद्भविष्यद्भवदपायपरिहारावहितचित्तानां ? निरुपयन्तु भवन्तः स्वयमेव तन्निवासस्थानम् । ततः केनचिद् व्याजेनान्यत्र प्रहितेषु साधुषु दृष्टशस्त्रेण पालकापरापरवचनैश्च चलितचित्तेन राज्ञाऽभिहित: स एव ' त्वमेव कुरु यथोचितमेषाम् ' । ततस्तेन पुरुषपीलनयन्त्रं निधाय पीडयितुमारब्धाः साधवः पापेन । स्कन्दकाचार्योऽपि प्रत्येकं दापयत्यालोचनामुत्पादयति समाधानम् । तेऽपि भगवन्तः मुक्तात्मकार्योऽयं निर्मिथ्यमस्मत्कर्मक्षयोद्यतः । विनयं (नियतं ) भाव्यपायत्वात् करुणां चायमर्हति ॥ १ ॥ इत्यालम्बनतो ध्यानं, सर्वेऽप्यापूर्य सत्तमं । पीडितास्तेन पापेन, गता मोक्षं विचक्षणा : ॥ २ ॥ क्षुल्लकं चैकं पश्चाद्भाविनमुद्दिश्यामुं पश्चात्पीडय मां प्रथममित्याचार्येणोक्तः स पापस्तं शीघ्रतरं पीडितवान्। ततः सञ्जातोऽतितीव्रः क्रोधाग्निराचार्यस्य, दग्धं क्षणाद् गुणेन्धनं, विस्मृत आत्मा, पालकमुद्दिश्य 'दुष्टात्मन् ! त्वद्वधाय भूयासमहमिति' बद्धनिदानः पीडितोऽनेन सञ्जातोऽग्निकुमारेषु । प्रयुक्तावधेरुल्लसितः कोपः। इतश्च तद्रजोहरणं रुधिरोपदिग्धं हस्तोऽयमिति भ्रान्त्या शकुनेर्नयतः पतितं तद्भगिन्याः प्राङ्गणे । तद् दृष्ट्वा सा राजानमुद्दिश्य प्राह ‘आः पाप! किमेतत् ?' ततो विज्ञाय वृत्तान्तं सञ्जातवैराग्या देवतया सपरिकरा नीता मुनिसुव्रतसमीपे, निष्क्रान्ता च । इतरेणाऽप्यागत्य अतिक्रोधाध्माततया भस्मीकृतः सपालकः स देश:, सञ्जातं तद्दण्डकारण्यमिति ॥ ४१ ॥ અવતરણિકા : તે આ પ્રમાણે આફતોમાં પણ દૃઢધર્મતા કહેવાઈ. તે દૃઢધર્મતા જેઓ વડે કરાઈ तद्द्वारेण = तेभना द्वारा = तेमना दृष्टान्त ४ए॥ाववा वडे (ते दृढधर्मताने ) ग्रंथङारश्री हे छे. ગાથાર્થ : ઘાણીઓ વડે પીડા કરાયેલા ( પીલાયેલા) એવા પણ સ્કંદકાચાર્યના શિષ્યો ગુસ્સે ન જ થયા. (આ પ્રમાણે) જણાયેલા છે તત્ત્વોનો સાર જેઓ વડે એવા જે પંડિતો છે તેઓ સહન કરે छे. ।। ४१ ।। - εξ -

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138