Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahiyeJain AradhanaKendra
Acharya:shaKailassagarsunGyanmandir
शालबुद्धिनान्यायस्वरूपंप्रकटीकृतमनयादुराचारिण्यैवबालोनिहतइति । तदानींतत्रस्थितःशूरसिंहोऽवदत-न्यायविदाशिरोमणे ! पितृव्य ? धन्यस्त्वं, जगत्यस्मिन्विशालबुद्धिस्त्वमेवाऽसि । इमंन्यायस्वरूपंनिर्णयतस्तवबुद्धिवलमगाधमन्ये । केवलंबालमरणमेवनविहितंकिन्तुदुर्गपालघातश्चाऽनयादुष्टयानिजहस्तेनैवनिष्पादितः । इत्येतत्सर्वमयाप्रत्यक्षतयादृष्टम् । अहमपितत्करगतस्तावञ्चयित्वामहताकष्टेनजीवितोऽस्मीतिशूरसिंहगिरंसमवधार्यसर्वेचमत्कृतास्तंमन्त्रिणप्रशंसन्तिस्म । ततोलक्ष्मणसिंहः कर्मणांप्रधानत्वंमन्यमानश्चन्द्रावतींभृशंनिर्भय॑निजनिकेतनान्निरवासयत् । अथनिजधर्मनिरतोलक्ष्मणसिंहः सुलक्षणानुगतः सुखेनदिवसानत्यवाहयत् । कियत्यपिसमयेव्यतीतेसतिगृहावाससुखंसेवमानयोस्तयोः क्रमेणशुभलक्षणलक्षितौद्वौपुत्रौजातौ । निजक
र्मानुसारतोलक्ष्मणसिंहोगृहाश्रमिणांधौरेयतामवाप, यतः-यत्रसत्यमतिस्तत्र, विजयः सर्वकामदः पापवृत्तिः सुगुप्ताऽपि, गर्ज| त्यनर्थदायिनी ॥ १॥ इतिसत्यधर्मपालयतस्तस्यमनसिदुःखमयःसंसारवासोऽभवत् । ततोभर्तृहरिवद्वैराग्यवासितमानसोलमा | णसिंहः सुलक्षणासमेतः सद्गुरोश्वरणान्तिकेभवनाशनंचारित्ररत्नंजग्राह । लक्ष्मणमुनिर्गुरुपादौसेवमानोनिजाचारमशिक्षत । | सुलक्षणासाध्वीचप्रवर्त्तिन्याः सन्निधौस्थिताशुद्धचारित्रमार्गसेवमानास्वजन्म कृतार्थयन्तीविचरतिस्म । ज्ञानध्याननिरतोयोलक्ष्मणमुनिः सैवाहपुरपत्तननगराणिपरिभ्रमन्नत्रगिरिराजयात्रार्थमागतोऽस्मि, पावनेऽस्मिन्सूर्यचनेचात्मध्यानं विदधामि । हेभव्या। समस्तमिदंसंसारस्वरूपंवैराग्यस्यैवनिदानमस्ति, तथाऽपिमद्वैराग्यकारणन्तुमुख्यतोमद्भार्याचन्द्रावत्येवजातास्ति, या कमलानिविचिन्वन्तीत्वयासरसिविलोकिता । निजकृतदुष्कर्मयोगात्सासर्वत्रधिक्कारलभमानापश्चात्तापपरायणानिजपापपकंक्षालयितुमस्मिनेवपवित्रवनेऽतिष्ठत् । अन्यदापर्यटन्तीसाध्यानस्थितमामपश्यत् , ब्रीडाऽवनतकन्धराविनीतभावव्यञ्जयन्तीसा ध्याननिर्मुक्तमा-*
For Private And Personlige Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376