Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
रितः। प्रभुरपि दशनमालामयूखवारिणा क्षालितयेव विमलयैकयाऽप्यनेकजनसन्देहहारिण्या सुरनरतिर्यगजनसाधारणया वारिवाहगर्जारवगभीरया संसारदुःखसंतप्तसत्चसन्तापहारिण्या योजनमात्रप्रतिफलनक्षमया मधुरया वाचा धर्मकथयितुंप्रारभत ।
इतो द्वारपालनिवेदितोवनपालकासमागत्यबद्धाञ्जलिरास्थानस्थितं चन्द्रराजमहीपतिव्यजिज्ञपत् । कुसुमाकरउद्याने, स्वामिन् ? भवरोगहारकः । मुनिसुव्रतस्वाम्यद्य, शान्तमूर्तिः समागतः ॥१॥ निशम्य तत्सुधासावं, वचनं स नरेश्वरः । धनरत्नप्रदानेन, वनपालमतोषयत् ॥ २।। ततश्चतुर्विधां सेना, सज्जयित्वाऽतिहर्षितः। प्रभुं नन्तुं जगामाशु, परिवारसमन्वितः ॥३॥ देवैर्विरचितं प्रौढं, वप्रत्रयविराजितम् । दृष्ट्वा समवसरणं, नृपतिर्मुदितोऽभवत् ॥ ४॥ गत्वाऽन्तिके बाहनानि, विहाय क्रमतश्चरन् । लक्ष्यीकृत्य जगामैत-त्पश्चाभिगमपूर्वकम् ॥ ५॥ अथदरतःसहजवैरिणोऽपिप्राणिनोमिथःशान्तस्वभावान्भगवतः पर्षदि मैत्रीभावेन संस्थितान्विलोक्य चेतसिचमत्कृतिदधानश्चन्द्रराजः स्वप्रियांप्रतिप्राह, कमलाक्षि ? इतो विलोकय, भगवतःपर्षदि नानाविधावस्कन्दसंग्रामैनिहतग्रामनगरनिवासा नरेन्द्राः सुहृद्भाबंदधानाःस्थिताः, प्रिये ? जगद्भर्तुः पर्षदि समागतोऽयं द्विरदोगण्डस्थलस्थली निजकरण केसरिकरमाकृष्य मुहुःकण्डूयते, इतश्च महिषोऽयंमुहुर्मुहुः स्नेहतोरसनया हेषमाणमिमंहयवरं महिषमिवप्रमार्टि, इतोऽयंमृगो लीलालोलितलाङ्गुल ऊर्ध्वको नमितवदनो घ्राणेन सिंहाननं जिघ्रति, प्रिये ? पश्य, पार्श्वयोरग्रतःपश्चाच ललन्तमूषकं निजशिशुवदयंतरुणमार्जारः समालिङ्गति, निर्भयोऽयंसरीसृपोनिजाभोगकुण्डलीकृत्य महानकुलस्य सन्निधौ वयस्यभावमापन्नोनिषएणोऽस्ति, हे प्रिये ? ये केचिदन्येऽपि जीवाशाश्वतवैरिणस्तेत्र निर्वैराः स्थिताः सन्ति, प्रभोरेवायमसमप्रभावः, इति जगत्प्रभोर्मुनिसुव्रतस्वामिनोमहिमानस्तुवन्भूपतिः
For Private And Personlige Only

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376